SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ भाववादनिरासास्त, पुण्यमेव चोपचायतनि शून्यवादनिरासार्थ, तन्निरासोपपत्तिश्च ग्रन्थान्तरावगम्या, एवं प्रायेणोत्तरत्रापि, 'अस्थि जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो ॥१२७॥ बहुवचनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम् 'अस्थि अजीव'त्ति पुरूषाद्वैतादिवादनिषेधार्थम्, 'अत्थि बंध अस्थि मोक्खे'त्ति बन्ध: कर्मणा जीवस्य मोक्ष:- सकलकर्मवियोगः तस्यव, एतच्च द्वयं "संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरेव नात्मे"त्येवंविधसाङ्खयमतनिषेधार्थमिति, 'अत्थि पुण्णे अत्थि पावे'त्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानं च सुखदुःखहेतुर्न पापमस्तोत्येपंविधवादनिरासार्थमुक्तं जगद्वैचित्र्यनिबन्धनकेवलस्वभाववादनिरासार्थ वा, 'अस्थि आसवे अस्थि संवरे' कर्मबन्धहेतुराश्रवः आश्रवनिरोधः संवरः, एतच्च बन्धमोक्षयोनिष्कारणत्वप्रतिषेधार्थं वीर्यप्राधान्यख्यापनार्थ वा' 'अत्थि वेयणा अस्थि णिज्जरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः कर्मक्षयः, एतच्च 'नामुक्त क्षीयते कर्म' त्येतत्प्रतिपादनार्थम् अहंदादिचतुष्कन सत्ताभिधानं तु तद्भुवनातिशायित्वमश्रद्दधता तच्छद्धोत्पादनार्थं, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थं तिर्यगाद्यस्तित्वप्रतिपादनं तु प्रत्यक्षप्रमाणस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन इति ये मन्यन्ते A तन्मतनिषेधार्थ, मातापितृसत्ताभिधानं तु ये मन्यन्ते-योऽयं मातापितव्यपदेशः स जनकत्वकृतो जनकत्वाच्च यूकाकृमिगण्डोलकादीनप्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितव्यवहार इति, तन्मतनिरासार्थ, निरासश्च जनकत्वे समानेऽप्युपकारित्वकृतस्तद्वयपदेश | इति, तथा ये मन्यन्ते अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति, रागादिमत्त्वात्पुरूषाणाम् अस्मदादिवदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं च ये मन्यन्ते-न सन्ति देवादयोऽप्रत्यक्षत्वात्, तन्मतव्युदासार्थ, तत्र सिद्धिः-ईषत्प्राग्भारा निष्ठितार्थता वा सिद्धास्तु-तद्वन्तः परिनिर्वाणं-कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वतास्तु-तद्वन्तः, तथा ये मन्यन्ते प्राणातिपातादयो न बन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात्, तन्मतनिषेधार्थम् 'अत्थि पाणाइवाए' इत्याद्युक्तं, केवलPमत्र सूत्रे बन्धहेतुरिति वाक्यशेषो दृश्यः, इह च यावत्करणादिदं दृश्य-'पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरइरई मायामोसे 911
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy