SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चयकारिभिः 'सविदियगायपल्हायणिज्जेहि'ति प्रतीतं, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेल्लचम्मसि त्ति 'तलान्यतस्यापत्र | स्थितस्य सम्बाधना क्रियते तत्तलचर्म, तत्र संवाहिएत्ति योगः, पडिपुण्णपाणिपायसुकुमालकोमलतहिति प्रतिपूर्णानां 'पाणिपादानां | सकमारकोमलानि-अत्यन्तकोमलानि तलानि-अधोभागा येषां ते तथा तैः, 'छेएहिति छकः-अवसरः, द्विसप्ततिकलापण्डितैरिति वृद्धाः, 'दक्खेहिति कार्याणामविलम्बितकारिभिः 'पत्तट्टेहिति प्राप्ताथैः-लब्धोपदेशै रित्यर्थः 'कुसलेहि'ति सम्बाधनाकर्मणि साधुभिः 'मेहावीहिति मेधाविभिः-अपूर्वविज्ञानग्रहणशक्तिकै: 'निउणसिप्पोवगएहिति निपुणानि-सूक्ष्माणि यानि शिल्पानि-अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि | Mol यस्ते तथा तैः, 'अम्भंगण परिमद्दणुव्वलण-करणगुणणिम्माहिति अभ्यङ्गनमर्दनोट्ठलनानां प्रतीतार्थानां करणे ये गुणाः-विशेषास्तेषु निर्माता | ये ते तथा तैः । 'अट्ठिसुहाए'त्ति अस्थ्नां सुखहेतुत्वादस्थिसुखा तया, एवं शेषाण्यपि, 'संवाहणाए'त्ति सम्बाधनया संवाहनया वा, विश्रामणयेत्यर्थः, 'अवगयखेयपरिस्समेत्ति खेदो-दन्ये 'खिद दैन्ये' इति वचनात् परिश्रम:-व्यायामजनितशरीरास्वास्थ्यविशेषः, 'समत्तजालाउलाभिरामे'त्ति समस्त:-सर्वो जालेन-विच्छत्तिच्छिद्रोपेतगृहावयवविशेषेणाकुलो-व्याप्तोऽभिरामश्च रम्यो यः स तथा, पाठान्तरे समुक्तेनमुक्ताफलयुतेन जालेनाऽऽकुलोऽभिरामश्च यः स तथा, 'विचित्तमणिरयणकुट्टिमतले'त्ति कुट्टिमतल-मणिभूमिका, 'सुहोदएहिति शुभोदकैस्ती र्थोदकैः सुखोदकर्वा-नात्युष्णरित्यर्थः, 'गंधोदएहिति श्रीखण्डादिरसमिश्रः 'पुप्फोदएहिति पुष्परसमिश्रेः 'सुद्धोदएहि ति स्वाभाविकैरित्यर्थः, सि 'तत्थ कोउयसएहिति तत्र-स्नानावसरे यानि कौतुकानां-रक्षादीनां शतानि तै: 'पम्हलसुकुमालगंधकासाइलहियंगे' पंक्ष्मला-पक्ष्मवतो अत एव सुकुमाला गन्धप्रधाना काषायी-कषायरक्तशाटिका तया लक्षितं-विरुक्षितमङ्ग-शरीरं यस्य स तथा । 'अहयसुमहग्धदूसरयणसुसंवुए' अहतं-मलमूषिकादिभिरनुपदूषितं प्रत्यग्र मित्यर्थः सुमहाघ च-बहुमूल्यं यदृष्यरत्नं-प्रधानवस्त्रं तेन संवृतः-परिगतः तद्वा सुष्ठु संवृतं-परिहितं १ न च बाच्यं 'प्राणितुर्याङ्गाणा'मिति द्वन्द्वकत्वभावादसाधु, सिद्ध एकवचनेन कार्ये बहुवचनात्तदनित्यता, न च ततोऽसाधुरयं, यद्वाऽनेकप्राणिविवक्षया पाणिपादं च पाणिपादं च पाणिपादं च पाणिपादानि तेषामिति समाहारगर्भो द्वन्द्वः तेषां पाणिपादानामिति स्याद्, आलोच्यमेतदविरोधेन सुधिया । ॥१०५॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy