________________
औपपाति"
॥९८॥
| जननिर्ग केति सामान्यतः 'अवितहमेगति विशेषतः, अत एव 'असंदिद्धमेति शङ्काया अविषय इत्यर्थः, अत एव 'इच्छियमेय'ति इष्टमस्माक
सू०२७ मेतत्, अत एव 'पडिच्छियमेगति भगवन्मुखात् पतत् प्रतीप्सितमागृहीतमेतत् इह च किञ्चिदिष्टमेव दृष्टमन्यत् प्रतीप्सितमेवेत्यत उच्यते'इच्छियपडिच्छियमेग'ति 'सच्चे गं एसम?' प्राणिहितोऽयमर्थ इति, 'माणसियाए' 'तच्चित्त'त्ति तस्मिन् भगवद्वचने चित्तं-भावमनो येषां , ते तच्चिताः, सामान्योपयोगापेक्षया वा तच्चिताः, 'तम्मण'त्ति तन्मनसो द्रव्यमनः प्रतीत्य विशेषोपयोग वा, 'तल्लेस्स'त्ति तल्लेश्या भगवद्वचन-01 गतशुभात्मपरिणामविशेषाः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः, तदाह 'कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रागं, लेश्याशब्दः प्रयुज्यते ॥१॥' तयज्झवसिय'त्ति इहाध्यवसाय: अध्यवसितं तच्चित्तत्वादिभावयुक्तानां सतां तस्मिन्भगवद्वचने एवाध्यवसितं क्रियासम्पादनविषयं येषां ते तदध्यवसिताः, 'तत्तिव्व-ज्झवसाणत्ति तस्मिन्नेव भगवद्वचने तीव्रमध्यवसानं-श्रवणविधिक्रियाप्रयत्नविशेषरूपं येषां ते तथा, 'तदप्पियकरण'त्ति तस्मिन्-भगवयर्पितानि करणानि-इन्द्रियाणि शब्दरूपादिषु श्रोत्रचक्षुरादीनि यस्ते तदर्पितकरणाः, 'तयट्टोवउत्त'त्ति तस्य भगवद्वचनस्य योऽर्थस्तत्रोपयुक्ता ये ते तदर्थोपयुक्ताः, 'तब्भावणाभाविय'त्ति तेन-भगवद्वचनेन तदर्थेन वा यका भावना-वासना प्राक्तनमुहूर्ते तया भाविता-वासिता न वासनान्तरमुपगता ये ते तद्भावनाभाविताः, अत एव 'एगमण'त्ति अद्वितीयमनसः अतिप्रशस्तया प्रधानमनस इत्यर्थः, अविमणत्ति अशून्यमनसः अदीनमनसो वा प्रमुदितत्वात् (अप्रमादित्वात्) अणन्नमणत्ति भगवन्मनस इत्यर्थः, किमुक्तं भवति ?-'जिणवयणधम्माणुरागरत्तमणा' जिनवचने जिनवदने वा धर्मानुरागेण रक्तं मनो येषां ते तथा, एकाथिकानि वैतानि तन्मनःप्रभृतीनि सर्वाणि पदानि तदेकाग्रताप्रकर्षप्रतिपादनार्थानीति, वियसियवरकमलनयणवयण'त्ति विकसितानि वरकमलानीव नयनवदनानि येषां ते तथा पर्युपासत इति । 'समोसरणाइंति समवसरणानि-वसतयः 'गवेसह'त्ति भगवदवस्थानावगमार्थं निरूपयत, क्व भगवानवस्थित इति जानीतेति भावः । 'आगंतारेसु वत्ति आगन्तराणि-येष्वागन्तुका वसन्ति, 'आरामागारेसु वत्ति आराममध्यवतिगृहेषु 'आएसणेसु वत्ति आवेशनानि येषु लोका आविशन्ति तानि चायस्कारकूम्भकारादिस्थानानि, 'आवसहेसु वत्ति आव
Tom९८॥