SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तीयवृन्दं वर्गण वर्गेण च भूत्वा वर्गावगि अत एवेहाव्ययीभावसमासः, गुम्मागुम्मिति-गुल्मं वृन्दमात्रं गुल्मेन च गुल्मेन च भूत्वेति गुल्माIN गुल्मि, 'महग'त्ति महता, रवेणेति योगः, उक्किटिसोहनायबोल कलकलकलरवेणं ति उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतः बोलश्व वर्णव्यक्ति वजितो ध्वनिरेव कलकलश्च-व्यक्तवचन: स एव एत लक्षणो यो रवः स तथा तेन, 'पक्खब्भियमहासमद्दवरभूय पिव करेमाण'त्ति प्रक्षुभितमहाजलधे?षप्राप्तिमिब-तन्मयमिव नगरं विदधाना इत्यर्थ , क्वचिदिदं पदचतुष्टयं दृश्यते 'पागदहरेणं भूमि कंपेमाण'त्ति त्वरितगमनजनि-18 तपादप्रहारेण, 'अंबरतलमिव फोडेमाण'त्ति पादपातप्रतिरवेणाकाशं स्फोटयन्त इव, 'एगदिसति एकया दिशा पूर्वोक्तलक्षणया, 'एगाभिमुह'त्ति ।।९७।। एक भगवन्तमभि-लक्षणीकृत्य मुखं येषां ते एकाभिमुखाः, 'तित्थगराइसेसे'त्ति तीर्थकरातिशेषान् जिनातिशयान्, 'जाणवाहणाई ठावइंति'त्ति यानानि-शकटादीनि वाहनानि गवादीनि स्थापयन्ति स्थिरीकुर्वन्ति, क्वचिद् विदरभंतीति दृष्यते, तत्र विशेषेण स्तम्भयन्ति निश्चलीकुर्वन्ति, इतो वाचनान्तरगतं बहु लिख्यते-'जाणाई मुगंति'त्ति भुवि विन्यस्यन्ति, 'वाहणाई विसज्जेतित्ति चरणार्थ मुत्कलयन्ति, 'पुप्फतंबोलाइयं आउहमाइयं सच्चित्तालंकार'ति सचित्तं च-सचेतनमलङ्कारं च-राजलक्षणं च विसर्जयन्तीति योगः, किंरूपं सचित्तमित्याह पुष्पताम्बूलादिकम्, आदिशब्दात् तथाविधफलादिग्रहः, तथा अलङ्कारं च किंविधमित्याह आयुधादिकम्. आयुधं खड्गादि आदिशब्दाच्छ त्रचामरमुकुटपरिग्रहः, 'पाहणाओ यत्ति उपानहौ च 'एगसाडियं उत्तरासंगति एकशाटव वन्तमुत्तरीयविन्यासविशेष 'आयंत'त्ति आचान्ताः-शौचाथ कृतजलस्पर्शाः, 'चोक्ख'त्ति आचमनादपनीताशुचिद्रव्याः, 'परमसुई भूय'त्ति अत एवात्यर्थं शुचीभूताः, 'अभिगमणति उपचारेण, 'अभिगच्छति' भगवन्तमुपचरन्ति, 'चक्खुप्फासे'त्ति दर्शने 'मणसा एगत्तीभावकरणेण'ति अनेक वस्य ऐकत्वस्य भवनम् एकत्वोभावस्तस्य यत् करणं तत्तथा तेन एकत्वीभावकरणेन, आत्मन इति गम्यते, मनसः एकाग्रतयेत्यर्थः, कायिकपर्युपासनामाह 'सुसमाहियपसंतसाहरियपाणिपाया' सुसमाहित:बहिर्वृत्त्याऽत्यन्तनिभृतैः प्रशान्तै:-अन्तर्वत्त्या उपशान्त: सद्भिः संहृतं संलीनीकृतं पाणिपादं यस्ते तथा, अत एव 'अंजलिमउलियहत्था' अञ्जलिना-अञ्जलिरूपतया मुकुलितौ-मुकुलाकारौ कृतौ हस्तौ यस्ते तथा, वाचिकपर्युपासनामाह 'एवमेयं भंते'त्ति एवमेतद्भदन्त ! -भट्टार IN ॥१७॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy