________________
तास्तथा, 'चन्द्रार्द्धसमललाटाः चन्द्राधिकसौम्यदर्शना उल्का इवोद्योतमाना' इति व्यक्तं, "विज्जुधणमिरीइसरदिपंत - तेअअहियतरसंनिकासाओं' विद्युतो ये घना मरीचयः-किरणाः सूरस्य च यद्दीन-तेजस्तेभ्योऽधिकतरः सन्निकाशो-दीप्तिर्यासां तास्तथा, 'सिगारागारचारवेसाओ' शुङ्गारो-रसविशेषस्तत्प्रधान आकार:-आकृतिश्चारुश्च वेषो-नेपथ्यं यासां तास्तथा, अथवा शङ्गारस्यागारमिव-गृहमिव
याश्चारुवेषाश्च यास्तास्तथा, 'संगयगयह सियभणिय -चेद्वियविलाससललिय - संलावनिउणजुत्तोवयारकुसलाओं' सङ्गतानि-उचितानि यानि गितादीनि तेषु निपुणा याः सङ्गतोपचारकुशलाश्च यास्तास्तथा, तत्र गतं-गमन हसितं-हासः भणितं-बचनं चेष्टितं-चेष्टा विलासो-नेत्र॥११॥
विकारः, यदाह-"हावो मुख विकारः स्यात् भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रसमुद्भवः ।।१॥" सललितः-समाधुर्यः संलाप:-परस्परभाषणम्, 'आह च-'संलापो भाषणं मिथः' अथवा ललितेन सह यः संलापः स तथा, ललितलक्षणं चेदम्-"हस्तपादाङ्गविन्यासो, भ्रूनेत्रोष्ठप्रयोजितः । सौन्दर्य कामिनीनां यल्ललितं तत्प्रकीतितम् ।।१।।' उपचार:-पूजा, 'सुन्दरस्तनजधनवदनकरचरणनयनलावण्यरूपयौवनविलासकलिताः' सुन्दराः स्तनादिनयनान्ता अवयवा यासां लावण्यप्रधानरूपेण स्पृहणीयेनेत्यर्थो यौवनेन विलासेन च कलिता यास्तास्तथा, इह च विलास एवंलक्षणो ग्राह्यो, यदुक्तम्-"स्थानासनगमनानां हस्तभ्रनेत्रकर्मणां चैव । उत्पद्यते विशेषो य शिलष्टः स तु विलासः स्यात् ॥१॥” इति, श्लिष्ट इति सुश्लिष्टः सुरवधुओं'त्ति विशेष्यपदं, 'सिरीसनवणीयमउय-सुकुमालतुल्लफासाओं' शिरीष-शिरीषाभिधानतरुकुसुमं नवनीतं च-म्रक्षणं ते च ते मदुकसुकुमारे च-अत्यन्तसुकूमारे इति विशेष्यपूर्वपदः कर्मधारयः तत्तुल्यः स्पर्शी यासों का तास्तथा, 'ववगयकलिकलुसाओ धोयनिद्धतरयमलाओ' व्यपगते कलिकलुषे-राटीपापकर्मणी यासां तास्तथा धौतौ-प्रक्षालिती निर्मातो दग्धो XI रजः स्पृष्ठावस्थो रेणु: मलस्तु बद्धावस्थं रज एवेति धौतनिर्माताविव धौतनिधर्माती रजोमलौ यासां तास्तथा, ततः कर्मधारयः, 'सोमाउ त्ति सोम्या-नीरुजः 'कताओ'त्ति काम्याः "पियदसणाओ'त्ति सुभगाः, सुरूपा इति व्यक्तं, "जिणभत्तिदंसणाणुरागेण हरिसियाओ'त्ति जिनं प्रति | भक्त्या कृत्वा यो दर्शनानुरागो-दर्शनेच्छा स तथा तेन हसिताः-सज्जातरोमाञ्चादिहर्षकायाः, 'ओवइया यावित्ति अवपतिताश्चाप्यवतीर्णाः,