________________
औपपातिकम्
॥८८॥
विमलधवलातपत्रा: । 'विउब्वियजाणवाहण विमाणदेहरयणप्पभाए'त्ति वैक्रियाणां यानादीनां ४ रत्नानां च स्वाभाविकानामितरेषां च या प्रभा सा तथा तथा, 'उज्जोएंता नह' कथमित्याह - 'वितिमिरं करेंता' नभ एवेति 'सम्बिड्डीए' युक्ता इति शेषः, 'हुलियं'ति शीघ्रं प्रयाताः । गमान्तरमिदम् 'पसिढिलवरम उडतिरीडधारी प्रश्लथा: - शिथिलबन्धना, गाढबन्धनानां बाधाजनकत्वात् (वर) मुकुटाश्चतुरस्राः शेखरविशेषाः तिरीटास्त ( किरीटास्त) एव शिखरत्रययुक्तास्तान् धारयन्ति ये तच्छीलाच ते तथा कुण्डलोद्योतिताननाः, 'मउडवित्तसिरयत्ति मुकुटेन दीप्ता: शिरोजा - मस्तककेशा येषां ते तथा, मुकुटदीप्तशिरस्का वा 'रत्ताभ'त्ति लोहितवर्णाः 'पउमप म्हगोर'त्ति कमलगर्भकान्ताः पीता इत्यर्थः, 'सेय'त्ति शुक्ला, त्रिवर्णा एव वैमानिका भवन्ति, यदाह - "कणगतयरत्ताभा सुरवसभा दोसु होंति कप्पेसु । तिसु होंति पम्हगोर तेण परं सुक्किला देवा ||१|| शेषं व्यक्तमेवेति ॥
पुस्तकान्तरे देवीवर्णको दृश्यते स चैवम् तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अच्छरगणसंघाया अंतिअं पाउ भवित्था, ताओ णं अच्छराओ धंतधोयकणग-रुअगसरिसप्पभाओ' ध्मातम्-अग्निना तापितं धौतं जलेन क्षालितं यत्कनकं तस्य यो रुचको - वर्णस्तत्सदृशप्रभाः गौराङ्गय इत्यर्थः, 'समइकंता य बालभावं ति अतिक्रान्ता इव शिशुत्वं, मध्यमजरठवयोविरहिताः, नवयौवना इवेयर्थः, 'अणइवरसोम्मचाररूवा' अनतिवरम् - अविद्यमानहासतया प्रधानं न विद्यतेऽतिवरं यस्मात्तदनतिवरमिति वा सौम्यं- नीरोगं चारुशोभनं रूपं यासां तास्तथा, 'निरुवहयसरसजोय्वण-कक्कसतरुणवयभावमुवगयाओ' निरुपहतं - रोगादिना अबाधितं सरसं च शृङ्गाररसोपेतं निरुपहतो वा स्वो रसो यत्र तत्तथाविधं यौवनं तथा कर्कशः - अश्लथाङ्गतया यस्तरुणवयोभावस्तारुष्यं तं चोपगता यास्तास्तथा, इह च taraणभावयोर्यद्यप्येकार्थता तथापि सरसत्वाश्लथा ङ्गत्वलक्षणयोर्मनः शरीराश्रितयोः प्रधानतया विवक्षितयोर्धर्मयोराधारतया भेदेन विवक्षणान्न पौनरुक्त्यमिति, 'निचमवट्ठियसहावा' न जरां प्राप्नुवन्तीत्यर्थः 'सव्वंगसुंदरी उ'त्ति 'इच्छियनेवत्थरइयरमणिञ्जगहियवेसा' इष्टवस्त्राभरणा
१ कनकत्वग्रक्ताभाः सुरवृषभा द्वयोर्भवन्ति कल्पयोः । त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ला देवाः || १॥
वैमानि० सू० २६
॥८८॥