________________
भाव
प्रकरणम्
॥२६॥
'उवसमखइओ' मोसो,' 'उदओ परिणामसन्निवा ओ अ । सव्वे जीवदाणे, 'परिणामुद'ओ अ जीवाणं ।४। ___ अवचूरिः-तत्रोपशमो विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य विष्कम्भणं, तेन निर्वत्त औपशमिकः, औपशमिकसम्यक्त्वादिः कालतः सादिसपर्यवसानः १ । क्षयः कर्मणोऽत्यन्तोच्छेदस्तेन निर्वत्तः क्षायिकः । तत्र क्षायिक चारित्रं दानादिलब्धिपञ्चकं च । क्षायिको भावः कालत: सादिसपर्यवसानः, क्षायिकानि ज्ञानदर्शनसम्यक्त्वानि तु कालतः साद्यपर्यवसानानि २ । क्षयेणोदीर्णस्यानुदीर्णस्य चोपशमेन निर्वत्तो मिश्रः, क्षायौपशमिकः । तत्र ज्ञानचतुष्कं विभङ्गज्ञानं, चक्षुरचक्षुरवधिदर्शनानि, देशविरतिसर्वविरतिक्षायौपशमिकसम्यक्त्वदानादिलब्धिपञ्चकानि च ; क्षायोपशमिको भावः कालतः सादिसपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसानः, एते एवाभव्यानामनाद्यपर्यवसानः ३ । उदयः शुभाशुभप्रकृतीनां विपाकतोऽनुभवनं तेन निवृत्त औदयिकः । तत्र नारकादीनां नारकगत्यादिः औदयिकभावः सादिसपर्यवसानः, मिथ्यात्वादिक औदयिकभावो भव्यानामनादिसपर्यवसानः, स एवाभव्यानामनाद्यपर्यवसानः ४ । परि समन्तानमनं जीवानामजीवानां च जीवत्वादिस्वरूपानुभवनं प्रति प्रह्वीभवनं परिणामस्तेन निवृत्तः पारिणामिकः पञ्चमः । तत्र पुद्गलकाये द्वद्यणुकादिपारिणामिका भावः स कालतः सादिसपर्यवसानः, भव्यत्वं भव्यानामनादिसपर्यवसानः, 'अभव्यत्वजीवत्वे पुनरनाद्यपर्यवसान: ५ । अत्र चतुर्भङ्गीस्थापना।
१ 'अभव्यं जीवत्वम्' इत्यपि पुस्तकान्तरे पाठः ।
।२६।।
Jain Education
For Personal & Private Use Only
wayainelibrary.org