________________
लोकनादि
॥८॥
द्वात्रिशिका स्यैताः प्रतररज्जव: १९ चतुभिर्भागो ह्रियते लब्धं पादोनपञ्चरजव ऊर्ध्वलोके स्युः । 'उभेत्ति' अधऊर्ध्वलोकघनरज्जुमीलने जातं पादोनत्रयोदशरज्जवः स्युः । अथ घनरज्ज्वादीनां प्रमाणमाह-'घणपयरसूइरज्जू' घणरज्जुश्चतुःषष्ट्या खण्डकः स्यात् । प्रतररज्जुः षोडशखण्डुकैः स्यात् । सुचीरज्जुश्चतुभिः खण्डुकैः स्यात् ॥१९॥ अथ सर्वाधऊर्ध्वलोकघनसङ्ग्रहायाहसयवग्गसंगुणे पुण, विसयगुआला हवंति घणरज्जू । सडपणहत्तरिसगं, सढतिसठ्ठी अहुड्डकमा ।।२०।।
अधउर्ध्वलोकखण्डुकानां स्वकस्वकवर्गे कृते चतुःषष्ट्या विभक्ते च धनरज्जवः स्युः । तथा (त्रा)धोलोकस्य वर्गः क्रियते । अष्टाविंशतिरष्टाविंशत्या गुण्यते जातम् ७८४ । षड्विंशतिः षड्विंशत्या गुण्यते जातम् ६७६ । चतुविंशतिश्चतुर्विंशत्या गुण्यते जातम् ५७६ । विंशतिविंशत्या गुण्यते जातम् ४०० । षोडश षोडशभिर्गुण्यन्ते जातम् २५६ । दश दशभिर्गुण्यन्ते जातं १०० । चतुष्कं चतुष्केण गुण्यते जातम् १६ । एते वर्गा एकस्यां दिशि लब्धाः, एते वर्गास्तिसृषु दिक्षु लभ्यमानत्वाच्चतुभिर्गुण्यते । यथैष अष्टाविंशतिवर्ग: ७८४ चतुष्केण गुणितो जातम् ३१३६ । षड्विंशतिवर्गः ६७६ चतुष्केण गुणितो जातम् २७०४ । चतुर्विशति वर्ग: ५७६ चतुष्केण गुणितो जातम् २३०४ । विंशतिवर्ग ४०० चतुष्केण गुणितो जातम् १६०० । षोडशवर्गः २५६ चतुष्केण गुणितो जातम् १०२४ । दशवर्गः १०० चतुष्केण गुणितो जातम् |
11८॥
Jain EducatioTASAR
For Persona & Private Use Only
lnelibrary.org