SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 11411 अहलोइ निरयअसुरा, बंतरनरतिरिअजोइसतरुग्गी । दोबुदही तिरिलोए, सुरसिद्धा उढलोअंभि ॥१२॥ अधोलोके नारका असुरा भवनपतिदेवाश्च स्युः । अथ तिर्यग्लोकस्वरूपमाह - व्यन्तरा नरास्तिर्यञ्चो ज्योतिष्कास्तरवोऽग्निद्वीपोदधयश्च तिर्यग्लोके स्युः । अर्थोर्ध्वलोकस्वरूपमाह - सुरा द्वादशभेदा नव ग्रैवेयकाः पञ्चानुत्तरविमानवासिनः सिद्धाश्चोर्ध्वलोके स्युः ।। १२ ।। अथाधोलोके नरकादीनां पृथक् पृथक् स्वरूपमाह - इक्किकरज्जु इक्कि - कनिरय सगपुढवि असुर पढमंतो । तह वंतर तदुवरि नर- गिरिमाइ जोइसा गयणे ||१३|| अधोलोकतलादेकैकरज्जो गतायां सप्तसु नरकेष्वेकैको नरकः । तथा असुर प्रथमान्तः प्रथमपृथ्वीमध्येऽसुरदेवा व्यन्तराश्च तदुपरि प्रथमपृथिव्युपरि । नरगिरितरुद्वीपोदधिसरिदादयः स्युः । ज्योतिष्का गगने आकाशे ।। १३ ।। अथ देवलोकानां प्रमाणमाह छ खंडगेसु अ दुगं, चउसु दुगं छसु अ कप्पचत्तारि । चउसु चऊ सेसेसु अ, गेविञ्जणुत्तरयसिद्धिते || १४ || रत्नप्रभापृथ्वीतलात् षट्सु खण्डकेषु गतेषु 'दुगंति' सौधर्मेशान देवलोकयोर्युग्मं भवति । ततः खण्डुकषट्कावर्षु खण्डुकेषु गतेषु सनत्कुमार माहेन्द्र देवलोकयोर्युग्मं भवति । ततः खण्डुकचतुष्कात् षट्सु खण्डुकेषु गतेषु चत्वरः कल्पा देवलोका ब्रह्मलान्तकशुक्रसहस्राराख्याः स्युः । ततः खण्डुकषट्काच्चतुर्षु खण्डुकेषु गतेषु चत्वारः कल्पा आनतप्राणतारणाच्युताख्याः स्युः । ततः शेषेष्वष्टसु खण्डुकेषु नवग्रैवेयकाः पञ्चानुत्तर विमानानि । Jain Education Mational For Personal & Private Use Only ॥५॥ winelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy