________________
Jain Educationa International
न तलक्यते धर्ते हृदये धियतेऽथवा । न वक्तुं शक्यते तर्हि यस्ये नृपयोषिता ॥ २४१ ॥ शक्यते यदि हि स्प्रष्टुं भूस्थेन शशिनः कला । तदान्यपुंसां सम्जोगविषयो राजपत्यपि ॥ २४२ ॥ दास्युवाचासहायस्य समस्तमपि दुष्करम् । तव त्वहं सहायास्मि चिन्तां सुन्दर मा कृथाः ॥ २४३ ॥ अन्तरन्तःपुरमपि मद्दुद्ध्या त्वमलक्षितः । पुष्पमध्ये स्थित इव सञ्चरिष्यस्यवं जिया ॥ २४४ ॥ श्रयेः समये मां सा तेनेत्युक्ता च चेटिका । सद्यो गत्वा तदाचख्यौ राइयै हर्षोद्भुवे ॥ २४५ ॥ तत्सङ्गमं चिन्तयन्त्या वखितायास्तदाद्यपि । अन्यदा पत्तने कौमुद्युत्सवो ऽभून्मनोहरः ॥ २४६ ॥ शस्यप्रशस्यक्षेत्रायां दुग्धशुद्धसरोम्नसि । बहिर्भूमौ ययौ राजा तदाखेटकलीलया ॥ २४७ ॥ तदा च विजनी जूते परितो राजवेश्मनि । तयैव चेट्या ललिता ललिताङ्गं समाह्वयत् ॥ २४८ ॥ देव्या विनोदमुद्दिश्य सा दास्यन्तः पुरे नरम् । नवीनयप्रतिमाव्याजेन तमवीविशत् ॥ २४९ ॥ खलिता खिताङ्गश्च तौ चिराज्जातसङ्गमौ । सस्वजाते मिश्रो गाढं वल्लीविटपिनाविव ॥ २५० ॥ विविदुः सौविदाश्चैवमनुमानादिकोविदाः । निश्चितं परपुरुषप्रवेशोऽन्तःपुरेऽजवत् ॥ २५९ ॥ मुषिताः स्मो वयमिति तेषां चिन्तयतामपि । समाप्याखेटकक्रीडामाययौ मेदिनीपतिः ॥ २५२ ॥ तेच राज्ञे व्यज्ञपयन्नखादानपूर्वकम् । श्राशङ्कास्माकमस्त्यन्तःपुरे परपुमानिति ॥ २५३ ॥ शब्दायमाने पन विहाय निनृतक्रमम् । प्रविवेश विशां नाथः शुद्धान्ते परिमोषिवत् ॥ २५४ ॥ सा चेटी चतुरा धारदत्तग्मेदिनीपतिम् । ददर्श दूरादायान्तं राहयौ ज्ञापयति स्म च ॥ २५५ ॥ १ अन्तःपुररक्षकाः २ अच्छलं निष्कपटं ३ उपानहौ ४ चोरवत्
For Personal and Private Use Only
w.jainelibrary.org