________________
तृतीयः
॥ ५० ॥
Jain Educationa International
राशी दास्यपि तं जारमुत्पाव्योपरिवर्त्मना । बहिश्चिक्षिपतुस्तुएँ गृहावकर राशिवत् ॥ २५६ ॥ स पपातौकसः पश्चात्प्रदेशस्थे महावटे । निलीय चास्थात्तत्रैव गुहायामिव कौशिकः ॥ २५७ ॥ कूपे तत्राशुचिस्थाने दुर्गन्धानुजवप्रदे । स तस्थौ नरकावास इव पूर्वसुखं स्मरन् ॥ २५८ ॥ अचिन्तयच्च यद्यस्मात्कथञ्चिदवटादहम् । निर्यास्यामि तदीदृकोदर्कैर्भोगैरलं मम ॥ २५९ ॥ राशी दासी च तस्यानुकम्पया तत्र चावटे । नित्यं चिक्षिपतुः फेलां तया श्वेव जिजीव सः ॥ २६० ॥ प्रावृष्युपस्थितायां च गृहप्रस्रवणाम्जसा । स कूपो बिजराश्चक्रे पातकेनेव दुष्टधीः ॥ २६१ ॥ शववत्सोऽम्नसा तेन वाहयित्वातिरंहसा । वप्रधारिकया बाह्यपरिखायामपात्यत ॥ २६२ ॥ उल्लास्य वारिपूरेणालो बुफखमिवोच्चकैः । सो ऽपि परिखातीरे नीरेणार्तो मुमूर्ख च ॥ २६३ ॥ दैवादागतया तत्र कुलदेवतयेव सः । धात्र्या दृष्टश्च नीतश्च सङ्गोप्य निजसद्मनि ॥ २६४ ॥ पास्यमानः कुटुम्बेनाच्यङ्गस्नानाशनादिनिः । विन्नप्ररूढशाखीव स बभूव पुनर्नवः ॥ २६५ ॥
चायमुपनयो यथा हि ललिताङ्गकः । कामजोगेष्व निर्विधस्तथा जीवः शरीरिणाम् ॥ २६६ ॥ यथा देवीप रिजोगस्तथा वैषयिकं सुखम् । श्रापातमात्रमधुरं परिणामे ऽतिदारुणम् ॥ २६७ ॥ कूपवास निजो गर्भः फेलाहारसमं हि तत् । मात्रा जग्धान्नपानाद्यैर्यऊर्भपरिपोषणम् ॥ २६८ ॥ यो दाम्बुपूरिता विष्टकूपात् खालेन निर्गमः । पुनलोपचितामर्जाद्योन्या निर्गमनं हि तत् ॥ २६९ ॥ पतनं परिखोत्सङ्गे यत्प्राकाराद्वहिः स्थिते । गर्भवासान्निपतनं सूतिकानवने हि तत् ॥ २७० ॥
१ उच्छिष्टं २ अलाबुफलं तुंबिका
For Personal and Private Use Only
सर्गः
11 10 11
www.jainelibrary.org