________________
Jain Educationonal
चोपनयो जीवः सोमदत्तस्य सन्निनः । सहमित्रस्य मित्रस्य तुझ्यो जवति विग्रहः ॥ १०० ॥ विग्रहोsयं कर्मराजकृतायां मरणापदि । सत्कृतो ऽपि हि जीवेन सह नैति मनागपि ॥ १०१ ॥ पर्व मित्रसमानाश्च सर्वे स्वजनबन्धवः । श्मशानचत्वरं गत्वा निवर्तन्ते हि तेऽखिलाः ॥ १८२ ॥ प्रणाममित्रसदृशो धर्मः शर्मनिबन्धनम् । यः परत्रापि जीवेन गच्छता सह गछति ॥ १०३ ॥ तदैहलौकिक सुखास्वादमूढो मनस्विनि । परलोकसुखं धर्मं नोपेदिष्ये मनागपि ॥ १८४ ॥
जयश्रीश्चान्यधान्नाथ तुएकताण्डवधीनिधे । नागश्रीवन्मोहयसि परं कूटकथानकैः ॥ १८५ ॥ तथा हि रमणीयाख्ये पुरे राजा कथाप्रियः । वारं वारेण पौरन्योऽची कथत्प्रत्यहं कथाम् ॥ १०६ ॥ तत्र चासीत्पुरे विप्र एको दारिद्र्यविद्वतः । चान्त्वा चान्त्वाखिलदिनं सोऽजीवत्कानिया ॥ १८७ ॥ अन्यदा तस्य विप्रस्य निरक्षर शिरोमणेः । कथाकथनवारोऽनूच्चिन्तयामास चेतसि ॥ १०८ ॥ सन्निपातवती चेयं स्वनामकथनेऽपि हि । जिह्वा स्खलति मे नित्यं का कथाकथने कथा ॥ १८९ ॥ कथां कथयितुं नाहं जानामीति यदि ब्रुवे । तत्कारामन्दिरं नीये का गतिर्मे जविष्यति ॥ १५० ॥ कुमारी हिता तस्य तं चिन्ताग्लपिताननम् । दृष्ट्वा पप्रच्छ का चिन्ता तस्या हेतुं जगौ च सः ॥ १५१ ॥
हितोवाच मा तात चिन्तासन्तानजाग्नव । त्वदीये वारके गत्वा कथयिष्याम्यहं कथाम् ॥ १२ ॥ इति स्नात्वा परिहितश्वेतवस्त्रा नृपान्तिके । गत्वा जयाशिषं दत्त्वा नृपं सोचे कथां शृणु ॥ १५३ ॥ राजापि तस्यास्तादृक्षनिःक्षोजत्वेन विस्मितः । उत्कर्षो ऽनूत्कथां श्रोतुं गीतिं मृग इवोच्चकैः ॥ १९४॥ साप्यारे कथयितुमिहैव नगरे द्विजः । नागशर्माग्निहोत्र्यस्ति कए निदैकजीविकः ॥ १०५ ॥
For Personal and Private Use Only
www.jainelibrary.org