SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ द्वितीयः ॥ ३७ ॥ Jain Educationa International चौरोऽपि पुंश्चलीमूचे प्रिये त्वामेकवेलया । नोत्तारयितुमीशोऽस्मि वस्त्राभरणजारिणीम् ॥ ६२० ॥ वस्त्राभरणसम्भारं त्वं ममार्पय वर्णिनि । तमादौ परतो नेष्ये ततस्त्वामपि लीलया ॥ ६२१ ॥ यावदायाम्यहं तावचैरस्तम्बे तिरोजव । एकाकिन्यपि मा जैषी रेष्यामि न चिरेण हि ॥ ६२२ ॥ श्रारोप्य पृष्ठदेशे त्वां तरन्पोत इवानसि । तटे परस्मिन्नेष्यामि मा जैषीः कुरु मघचः ॥ ६२३ ॥ पुंश्चस्यपि तथा चक्रे शरस्तम्बे प्रविश्य च । वस्त्राभरणनृत्सो ऽपि पारं गत्वेत्यचिन्तयत् ॥ ६२४ ॥ रं मारयामास येयं मय्यनुरागिणी । क्षणरागा हरिदेव विपदे स्यान्ममाप्यसौ ॥ ६२५ ॥ इत्युपादाय तदस्त्रारणानि स तस्करः । तां वलत्कन्धरः पश्यन्नश्यति स्म कुरङ्गवत् ॥ ६२६ ॥ करिवरा यथा जातेव नग्निका ॥ ऊचे तं यान्तमालोक्य मां विहाय प्रयासि किम् ॥ ६२७ ॥ चौरोऽब्रवीदिवसनामेकां शरवणस्थिताम् । राक्षसीमिव दृष्ट्वा त्वां बिभेम्येव कृतं त्वया ॥ ६२० ॥ एवं वदन्खग इवोड्डीनः सो ऽगाददर्शनम् । तत्रैव तस्थौ त्वासित्वा धर्षणी पतिर्धर्षिणी ॥ ६२ ॥ सहस्तिपकजीवोsपि देवनूयमुपेयिवान् । प्रयुक्तावधिरद्राक्षीत्तां तथास्थां तपस्विनीम् ॥ ६३० ॥ सम्बुबोधयिषुस्तां तु प्राग्जन्मगृहमेधिनीम् । मुखात्तमांसपेशीकं शृगालं विचकार सः ॥ ६३१ ॥ इतश्च सरितस्तस्यास्तीरे नीराद्वहिः स्थितम् । मीनं जोक्तुमधाविष्ट मांसपेशीं विहाय सः ॥ ६३२ ॥ तदा मीनः पुनरपि प्रविवेश नदीजलम् । उपाददे तघिकृतशकुन्या मांसपेश्यपि ॥ ६३३ ॥ नदीतीरे शरवण निषण्णा सा तु नग्निका । जगाद दुःखदीनापि जम्बुकं दृष्टकौतुका ॥ ६३४ ॥ १ तृणगुच्छे । २ व्यभिचारिणी । ३ नष्टपतिका । For Personal and Private Use Only सर्गः ॥ ३७ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy