________________
मांसपेशीं परित्यज्य मीनमिसि दुर्मते । भ्रष्टो मीनाच्च मांसाच्च किं जम्बुक निरीक्षसे ॥ ६३५ ॥ फेरुः समाहोर्तारं हित्वोपपतिमिच्छसि । भ्रष्टा पत्युश्च जाराच्च नग्निके किं निरीक्षसे ॥ ६३६ ॥
छ्रुत्वा सुष्ठु वियत्यास्तस्याः स व्यन्तरामरः । महर्द्धिकं निजं रूपं दर्शयित्वैवमब्रवीत् ॥ ६३७ ॥ पापमेवाकृथाः पापे यद्यपि त्वं तथापि हि। जिनधर्म प्रपद्येथाः पापपङ्कजलप्लवम् ॥ ६३८ ॥ मुग्धे हस्तिपकः सोऽहं यस्त्वया मृत्युमापितः | जिनधर्मप्रभावाच्च देवी भूतोऽस्मि पश्य माम् ॥ ६३ ॥ जिनधर्म प्रपत्स्ये ऽहमपीति कृतनिश्चयाम् । तां साध्वीसन्निधौ नीत्वा स प्रत्रज्यामजिग्रहत् ॥ ६४० ॥ तदस्मादृग् जनानर्हान्प्रवर्तक निवर्तकान् । दृष्टान्तांस्त्वमनादृत्य चुंदव वैषयिकं सुखम् ॥ ६४१ ॥ जगाद जम्बूनामापि विद्युन्मालीव खेचरः । न ह्यस्मि रागग्रहिलश्चरितं तस्य तछृणु ॥ ६४२ ॥
Jain Educationa International
श्रस्तीह भरतक्षेत्रे वैताढ्यो नाम पर्वतः । सम्पृक्तो जरतार्धाच्यां पक्षाच्यामिव नीडजः ॥ ६४३ ॥ तत्र चास्ति पुरवरमुत्तरश्रेणिभूषणम् । गगनवलनमिति सदामतिवनम् ॥ ६४४ ॥ at fararaon प्रीतिमन्तौ सहोदरौ । तत्राभूतां मेघरथो विद्युन्माली च नामतः ॥ ६४५ ॥ मन्त्रयामासतुस्तौ च विद्यासाधनहेतवे । यामो नूगोचराज्यर्णे विद्या तत्रैव सेत्स्यति ॥ ६४६ ॥ विद्यासि विधिश्वाय मतिनी च कुलोद्भवाम् । कन्यां परिणयेधर्षावधि ब्रह्म च पालयेत् ॥ ६४७ ॥ ततो गुरूननुज्ञाप्य जरतार्थेऽत्र दक्षिणे । श्राजग्मतुर्घावपि तौ वसन्तपुरपत्तनम् ॥ ६४८ ॥ ततश्चण्डालवेषेण गत्वा चण्डालपाटकम् । प्रचक्रमाते चएकालाराधनं धीमहाधनौ ॥ ६४ ॥ राधितास्तु मातङ्गाः प्रोचुरायातमत्र किम् । श्राख्यातं चिरकालो नूद्युवयोरिह तिष्ठतोः ॥ ६५०॥
For Personal and Private Use Only
www.jainelibrary.org