________________
नूपुराकर्षणेनाशु प्राबुद्ध स्वर्णकृषधूः । प्रायः सन्जयसुप्तानां निजाप्यटपा जयादिव ॥ ५११॥ ज्ञात्वा च सापि श्वशुरेणाकृष्टं पादनूपुरम् । उत्थाप्य जारपुरुषं बन्जापे जीविसंस्थुला ॥ ५१२ ॥ प्रयाहि शीघ्रं दृष्टौ स्वः श्वशुरेण पुरात्मना । साहाय्याय यतेयास्त्वं ममानर्थे समागते ॥ ५१३ ॥
आमेत्युक्त्वार्धसंवीतसंव्यानः स नयाद्ययौ । पुंश्चत्यपि द्रुतं गत्वा पार्श्वे पत्युरशेत सा ॥ ५१४ ॥ धृष्टत्वं नाटयन्ती सा धीमतीनां धुरन्धरा । पतिं प्रबोधयामास गाढालिङ्गनपूर्वकम् ॥ ५१५॥ उवाच चार्यपुत्रेह धर्मो मामतिबाधते । तदेह्यशोकवनिकामनिलालोलपक्षवाम् ॥ ५१६॥ नत्थाय देवदिन्नोऽपि स्त्रीप्रधानः स आर्जवात् । जगामाशोकवनिकां तया ग्रीवाविलग्नया ॥ ५१७॥ तत्रैव गत्वा सात पतिमालिङ्गय निर्जरम् । सजारा यत्र शयिता श्वशुरेण निरीक्षिता ॥ ५१७ ॥ तत्रापि तत्पतिर्निशां प्रपेदे सरलाशयः। निषा ह्यनुजमनसां प्रायेण सुखनैव हि ॥ ५१ए॥ नटीव गोपिताकारा सा धूर्ताथावदत्पतिम् । त्वत्कुले कोऽयमाचारो यो वक्तुमपि नेष्यते ॥ ५२० ॥ त्वामालिङ्गय प्रसुप्ताया निरावरणवदसः। जग्राह तातो मे पादादस्मादाकृष्य नूपुरम् ॥ २१॥ न युज्यते वधूः स्प्रष्टुं पूज्यानामन्यदापि हि । किं पुनः पतिसहिताः शयिता रतवेश्मनि ॥ ५॥ जगाद देवदिन्नोऽपि प्रातः पितरमीदृशम् । सोपालम्नं नणिष्यामि पश्यन्त्यास्ते मनस्विनि ॥ १३ ॥ सोचेऽधुनैव तातं त्वं संवादयितुमर्हसि । प्रातामन्यपुंसा हि शयितां कथयिष्यति ॥ ५२५॥ सोऽवोच मम सुप्तस्याहार्नूपुरमित्यहम् । तातमाक्षिप्य वक्ष्यामि तव पोऽस्मि निश्चितम् ॥ ५२५॥ प्रजातेऽपि तथा वाच्यं वदीदानीं यथा प्रिय । इति तं कारयामास सा धूर्ता शपथान्बहून् ॥५२६॥
XOLOSSEUS GROSSASPAX
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org