SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तत्र तिर्यमय-नूतो देवीनूतश्च मानवः । तीर्थप्रनावात्तादौ स्यातां चेत्पततः पुनः॥१५॥ इति तत्रैव हि तीर्थे स कम्पां दत्तवानपि । प्राग्जन्मवानरत्वेन वानरः पुनरप्यनूत् ॥ ४२०॥ राकानिशाकरमुखी कम्बुकएपीमुरुस्तनीम् । तनूदरी वरारोहां पद्मोपमकरक्रमाम् ॥४१॥ गङ्गामृत्कृततिलको लतासंयतकुन्तलाम् । अरण्यकेतकोत्तंसां तालिकादलकुएमलाम् ॥४॥ कए स्थनलिनीनालहारां हरिणचनुषीम् ॥ तामीक्षाञ्चक्रिरेऽन्येयुज्रमन्तो राजपूरुषाः॥ १३ ॥ त्रिनिर्विशेषकम् ॥ राज्ञे समर्पयामासुस्तामुपादाय ते नराः। यद्यदस्वामिकं तत्तत्सर्वं नवति राजसात् ॥ २४॥ राज्ञा दिव्याकृतिश्चक्रे सान्तःपुरशिरोमणिः। खदम्यो लक्षणवत्या ह्याकृतेरतिथयः खलु ॥ ४२५॥ वानरः सोऽपि जगृहे कैश्चित्तत्रागतैनरैः। नाव्यं विविधनङ्गीकं पुत्रवच्चिश्तिश्च तैः ॥२६॥ ते नटाश्चान्यदा जग्मू राशस्तस्यैव सन्निधौ । वानरं नर्तयन्तस्तं चक्रुश्च प्रेक्षणीयकम् ॥ ४२७ ॥ अरोदीघानरो राज्ञोऽर्धासने प्रेक्ष्य तां प्रियाम् । अश्रुपातैः सात्त्विकानिनयं प्रकटयन्निव ॥ ४ ॥ राझ्यूचे यो यथा कालः कपे सेवस्व तं तथा । मा वञ्जलपरिज्रष्टः साम्प्रतं पतनं स्मर ॥ ए॥ तस्मात्त्वमपि सम्प्राप्तमुफन्वैषयिकं सुखम् । पश्चात्तापपरः पश्चान्मा नूः स श्व वानरः॥४३०॥ जम्बूनामा जगादैवं पद्मश्रीरपि न ह्यहम् । विषयेष्वस्मि तृषितो यथा ह्यङ्गारकारकः ॥४३१ ॥ तथा हि कश्चिदङ्गारकारकोऽगान्महाटवीम् । अङ्गारान्कर्तुमुष्णतौ पातुमात्तबहूदकः॥४३॥ १ राजाधीनम् । २ वृक्षात्परिभ्रष्टः । Jain Educationamam For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy