SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्रथमः ॥३॥ Jain Educationational स्वाम्याख्यात्तत्र समये कृतकालो व्रजेनृपः । प्रसन्नचन्द्रो राजर्षिः सप्तमीं नरकावनम् ॥ ७३ ॥ श्रमणोपासको राजा ऋजुधीरित्यचिन्तयत् । श्रप्युग्रतपसोऽमुष्य गतिः केयं महामुनेः ॥ ७४ ॥ नृपो भूयोऽपि प समयेऽस्मिन्महामुनिः । स काखं यदि कुर्वीत का खनेत ततो गतिम् ॥ ७५ ॥ प्रभुः प्रोवाच हे राजन्स राजर्षिर्महातपाः । सर्वार्थसिद्धिगमनयोग्यः सम्प्रति वर्तते ॥ ७६ ॥ राजा जगाद जगवन्किमियं व्याकृतिर्द्विधा । समाख्याहि ममाज्ञस्य सार्वज्ञो वाक्कुतोऽन्यथा ॥ 99 ॥ स्वाम्याचख्यौ यदा राजन्राजर्षिर्वन्दितस्त्वया । रौषध्यानी तदा सोऽभूबुक्लध्यानी तु सम्प्रति ॥ ७८ ॥ स तदा नरकार्दोऽनूऔंषध्यानपरायणः । सर्वार्थसिद्धियोग्यस्तु शुक्लध्यानपरोऽधुना ॥ ७ ॥ ज्ञानालोकार्कमन्तं पप्र श्रेणिकः पुनः । रौषध्यानी कथमनू बुकुध्यानी कथं च सः ॥ ८० ॥ स्वाम्यप्युवाच राजंस्त्वदग्र सैनिकवार्त्तया । शुश्रावानिजवं सूनोर्मन्त्रिभ्यः स्वेभ्य एव सः ॥ ८१ ॥ स्पृष्टः सुतममत्वेन प्रसन्नो विस्मृतव्रतः । मनसा योद्धुमारेजे तैः समं क्रूरमन्त्रिभिः ॥ ८२ ॥ प्रत्यक्षरिव तैः सार्धं युध्यमानोऽधिकाधिकम् । निष्ठितास्त्रः प्रसन्नोऽजूदप्रसन्नमनाः क्रुधा ॥ ८३ ॥ स सन्नद्धं स्वमज्ञासीदिति चाचिन्तयत्कुधा । शिरस्त्रेणापि हन्म्येतान्सर्वे शस्त्रं हि दोष्मताम् ॥ ८४ ॥ ततश्च शिरसि न्यास्थविरस्कादित्सया करम् । तं लुञ्चितं स्पृशन्नात्तव्रतमात्मानमस्मरत् ॥ ८५ ॥ अचिन्तयच्च धिग्धिग्मां रौषध्यानानुबन्धिनम् । किं तेन सूनुना किं तैर्मन्त्रिनिर्निर्ममस्य मे ॥ ८६ ॥ इति चिन्तयतस्तस्य विलीने मोहदुर्दिने । विवेकभास्करः प्रादुरभूद्भूयोऽपि जास्वरः ॥ ८७ ॥ १ पराक्रमिणाम् । For Personal and Private Use Only सर्गः ॥ ३ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy