SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ द्वितीयः ॥ २६ ॥ Jain Educationa International तस्याश्चाखष्कतपसः प्रवर्तिन्युपदेशतः । पुष्पं तपोविटपिनोऽवधिज्ञानमजायत ॥ २०३ ॥ कुबेरदत्तोऽस्ति कथमिति चिन्तयति स्म सा । कुबेरसेनासङ्क्रान्त्या सपुत्रं तं ददर्श च ॥ २०४ ॥ अनघा सा शुशोचैवमहो मम सहोदरः । श्रकृत्यपङ्कनिर्मनो वराह इव तिष्ठति ॥ २८५ ॥ इति तत्प्रतिबोधार्थ मियाय मथुरापुरीम् । समेता संयती जिः सा करुणारससारणिः ॥ २०६ ॥ श्रार्या कुबेरदत्तापि धर्मलाजपुरःसरम् । पार्श्वे कुबेरसेनायाः प्रतिश्रयमयाचत ॥ २८७ ॥ प्रणम्य सेनाप्यवददार्येऽहं पणसुन्दरी । सम्प्रत्येकपतित्वेन पुनः कुलवधूरिव ॥ २८८ ॥ कुलीनपतिसंसर्गात्कुलस्त्रीवेष एष मे । कुलीनाचरितेनापि प्रसादार्हास्मि वः खलु ॥ २८७ ॥ तदितो महान्यर्णे प्रतिगृह्य प्रतिश्रयम् । संनिधिस्था जवत मे सदेष्टा इव दैवताः ॥ २९० ॥ ततश्च सपरीवारा तस्याः कल्याणकामधुक् । कुबेरदत्ता तद्दत्तवसताववसत्सुखम् ॥ २१ ॥ कुबेरसेनाप्य स्वं तत्रागत्य दिवानिशम् । श्रार्यायाः पादपद्माग्रे लुठन्तममुचद्भुवि ॥ २७२ ॥ बुध्येत यो यथा जन्तुस्तं तथा बोधयेदिति । श्रार्या तत्प्रतिबोधार्थ तं बालमुदलापयत् ॥ २९३ ॥ जातासि तनुजन्मासि वरस्यावरजोऽसि च । चातृव्योऽसि पितृव्योऽसि पुत्रपुत्रोऽसि चार्जक ॥ २९४ ॥ श्च ते बालक पिता स मे जवति सोदरः । पिता पितामहो जर्ता तनयः श्वशुरोऽपि च ॥ २९५ ॥ या च बालक ते माता सा मे माता पितामही । भ्रातृजाया वधूः श्वश्रूः सपत्नी च जवत्यहो ॥ २७६ ॥ कुबेरदत्तः तम्छ्रुत्वा जगादार्ये किमीदृशम् । परस्पर विरुद्धार्थं जापसे विस्मितोऽस्म्यहम् ॥ २७ ॥ आयचे मम बालोऽयं जातैका जननी यतः । वदामि तनुजन्मानममुं मत्पतिसूरिति ॥ २९८ ॥ For Personal and Private Use Only सर्गः ॥ २६ ॥ wainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy