________________
प्रथमः
॥ १६ ॥
Jain Educationa International
श्श्रासन्नच्यवनस्यास्य पुण्यात्मन इयं द्युतिः । पुराद्रह्मलोकेन्द्रसमानद्युतिरेष हि ॥ ४६८ ॥ च्युत्वायमत्रैव पुरे सप्तमेऽहन्यतो दिनात् । रुषनेच्यस्य तनयो जम्बूर्भाव्यन्त केवली ॥ ४६५ ॥ तदा चोपप्रसन्नर्षि विद्युन्मालिनि जग्मुषि । चतस्रस्तत्प्रिया एवं पप्रनुस्तं महामुनिम् ॥ ४१० ॥ इतोऽस्माकं वियुक्तानां विद्युन्मालिदिवौकसः । समागमः पुनः क्वापि जविष्यत्यथवा न वा ॥ ४७१ ॥ कृषिराख्यच्च सन्तीच्याश्चत्वारोऽत्रैव पत्तने । समुद्रः प्रियसमुद्रः कुबेरः सागरोऽपि च ॥ ४३२ ॥ तेषां चतुर्थी चतस्रः पुत्र्यो यूयं जविष्यथ । मर्त्यत्वमीयुषा जावी तत्र वोऽनेन सङ्गमः ॥ ४१३ ॥ सुरासुरैः सेवितपादपद्मः श्री वर्धमानोऽपि कृपासमुद्रः । जव्याजसूर्योऽतिशयर्द्धिपात्रं विहर्तुमन्यत्र ततो जगाम ॥ ४७४ ॥ इत्याचार्य श्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावली चरिते महाकाव्ये जम्बूखामिपूर्वजववर्णनो नाम प्रथमः सर्गः ॥ १ ॥
१ मनुष्यत्वं प्राप्तेन ।
For Personal and Private Use Only
सर्गः
॥ १६ ॥
www.jainelibrary.org