________________
Jain Educationa International
कृत्वा नैधिकीं तस्य सदनान्तः प्रविश्य च । क्रमशः प्रतिचक्राम स ऐर्यापथिकीं सुधीः ॥ ४९२ ॥ वन्दनं द्वादशावर्त दत्त्वा भूमिं प्रमार्ण्य च । निषसाद वदन्नुच्चैरनुजानीहि मामिति ॥ ४५३ ॥ शिवोsवददो इन्य साधूनामुपसागरम् । विनयोऽयं मया दृष्टः स कथं मयि युज्यते ॥ ४५४ ॥ इन्यपुत्रोऽन्यधात्सम्यग्दृष्टीनां यत्र कुत्रचित् । समजावो हि योग्यः स्यात्सर्वस्य विनयस्य जोः ॥ ४५५ ॥ यस्य कस्यापि हि स्वान्तं समजावाधिवासितम् । स वन्दनार्हो भवति दोषाशंकापि नेह जोः ॥ ४५६ ॥ कुमार किं तु पृच्छामि प्रष्टुमेवाहमागमम् । रसज्वरातुरेणेव किं त्वयात्याजि जोजनम् ॥ ४५७ ॥ शिवोऽवदतोव्रताय पितरौ न माम् । ततो जावयतीनूय स्थितोऽस्मि विरतो गृहात् ॥ ४५० ॥ यथा ह्युज्य पितरौ विहाय ममतां मयि । व्रतार्थमादिशतो मामतः कुर्वे न जोजनम् ॥ ४५६ ॥ योऽन्यधत्त यद्येवं तमुञ्जीथा महाशय । धर्मो ह्यधीनो देहस्य देहश्वाहारसम्भवः ॥ ४६० ॥ हारं निरवद्यं हि गृह्णन्त्यपि महर्षयः । शरीरे तु निराहारे दुष्करा कर्मनिर्जरा ॥ ४६१ ॥ कुमारोऽप्यन्यधादिन्यसूनो सम्पद्यते मम । नाहारोऽप्यनवद्योऽत्र तस्माघरमनोजनम् ॥ ४६२ ॥
योsवादी रुस्त्वं मे शिष्यस्तेऽहमतः परम् । सर्व सम्पादयिष्यामि निरवद्यं यदिष्ठसि ॥ ४६३ ॥ व्याजहार कुमारोऽपि सखे तर्हि निरन्तरम् । षष्ठं कृत्वा करिष्येऽहमाचामाम्लेन पारणम् ॥ ४६४ ॥ शिवस्य जावयतिनस्तदाद्यपि महेन्यसूः । विनयं कर्तुमारेने सामाचारीविचक्षणः ॥ ४६५ ॥ तपस्यतः शिवस्यापि ययौ द्वादशवत्सरी । मोहात्पितृभ्यां न पुनर्व्यसर्जि गुरुसन्निधौ ॥ ४६६ ॥ मृत्वा शिवकुमारोऽभूद्ब्रह्मलोके महाद्युतिः । विद्युन्मास्यनिधानोऽयमिन्द्रसामानिकः सुरः ॥ ४६७ ॥
1
For Personal and Private Use Only
www.jainelibrary.org