SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 1 कश्चिदूचे तदा साधुर्जवदत्तासि परिमतः । यदि त्वमनुजन्मानं निजं प्रब्राजयिष्यसि ॥ ३०० ॥ नवदत्तोऽब्रवीद्देशे मगधाख्ये गुरुर्यदि । विहरिष्यति तददः कौतुकं दर्शयिष्यते ॥ ३०१ ॥ विहरन्तोऽन्यदा जग्मुर्मगधानेव सूरयः । समीरणवदेकत्र श्रमणानां स्थितिर्न हि ॥ ३०२ ॥ आचार्य पादान्वन्दित्वा जवदत्तो व्यजिज्ञपत् । स्वजनानित श्रासन्नान्दिदृक्षे युष्मदाज्ञया ॥ ३०३ ॥ वदत्तं ततश्चैकमपि तत्रादिशद्गुरुः । एकाकिनोऽप्यर्हति हि विहारो वशिनो मुनेः ॥ ३०४ ॥ जवदत्तो जगामाथ स्वेषां संसारिणां गृहे । प्रव्रज्याग्राहणेनानुग्रहीतु मनुजं निजम् ॥ ३०५ ॥ नागदत्तस्य तनयां वासुकी कुक्षिसम्नवाम् । उपयेमे नवदेवो जवदत्तानुजस्तदा ॥ ३०६ ॥ कृतोषाहोत्सवाः सर्वे बन्धवस्तं मुदाभ्ययुः । मन्यमाना उत्सवोपर्युत्सवं तत्समागमम् ॥ ३०७ ॥ सद्यः पाद्येन तत्यादौ प्रहास्य प्रासुकेन ते । पादोदकमवन्दन्त मत्वा तीर्थोदकाधिकम् ॥ ३०८ ॥ नवान्धिमाननयादवलम्ब मिवेच्छवः । लगित्वा पादयोः सर्वे बन्धवस्तं ववन्दिरे ॥ ३०९ ॥ मुनिरप्यभ्यधाद्वन्धून्विवाहव्याकुलाः स्थ जोः । यामो विहर्तुमन्यत्र धर्मलानोऽस्तु वोऽनघाः ॥ ३१० ॥ तमृषिं बन्धवः सर्वे जक्तपानादिनिर्मुदा । एषणीयकल्पनीयप्रासुकैः प्रत्यलाजयन् ॥ ३११ ॥ तदानीं वदेवोऽपि कुलाचारं प्रपालयन् । सेव्यमानां वयस्यानिर्नवोढां मएमयन्नभूत् ॥ ३१२ ॥ चक्रेऽङ्गरागं प्रेयस्या श्रीचन्दनरसेन सः । चन्द्रातपरसेनेवाकृष्टेन शशिमएकलात् ॥ ३१३ ॥ तस्य मूर्ध्नि च धम्म सुमनोदामगर्जितम् । चबन्ध प्रस्तशशिनः स्वर्माणोः श्री मलिम्लुचम् ॥ ३१४ ॥ तत्कपोलफलकयोः कस्तूर्या पत्रवल्लरीम् । मीनकेतोरिव जयप्रशस्तिमखििखत्स्वयम् ॥ ३१५ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy