SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International चार्य व शिष्याणां तासां मध्ये निषद्य सः । वाचनां दातुमारेने प्रावृमम्नोधरध्वनिः ॥ १६७ ॥ एकादशानामङ्गानामपि पूर्वगतस्य च । वाचनां पुनरागछन् गुरुः शुश्राव दूरतः ॥ १६८ ॥ वसतिधारमायातः श्रुत्वा गहगहारवम् । श्राचार्यो ऽचिन्तयत्किं नु साधवः शीघ्रमागताः ॥ १६७ ॥ अस्मदागमनममी पालयन्तो महर्षयः । स्वाध्यायं कुर्वते निक्षामुपादाय समागताः ॥ १७० ॥ श्राचार्याश्च विदाञ्चक्रुः क्षणं स्थित्वा विमृश्य च । यथैष वज्रबालर्षेर्वाचनां ददतो ध्वनिः ॥ १७१ ॥ सौ पूर्वगतस्यैकादशाया अपि वाचनाम् । यद्दत्ते तत्किमध्यैष्ट गर्भस्थो विस्मयामहे ॥ १७२ ॥ स्थविरैः पाठ्यमानो ऽयमत एवालसायते । बाढयात्पागलस इति ज्ञात्वाशिष्म तदा वयम् ॥ १७३ ॥ अस्मदाकर्णनाशङ्की लजितो मा स्म जूदसौ । रोमाञ्चितः शिष्यगुणैराचार्य इत्यपासरत् ॥ १७४ ॥ शब्देन महताचार्याश्चक्रुर्नैषेधिकीमथ । गुरूणां शब्दमाकयदस्थाो ऽपि विष्टरात् ॥ १७५ ॥ उपेत्य जितिगतिर्न यावत्प्राविशशुरुः । तावत्ता वेष्टिका वज्रः स्वस्वस्थाने मुमोच च ॥ १७६ ॥ अन्येत्य च गुरोर्दकमाददे ही ममार्ज च । तषजोवन्दनेनोच्चैः स्वं जालमवगुण्डयन् ॥ १99 ॥ आसनस्थस्य च गुरोः पादौ प्रासुकवारिणा । दालयामास शिरसा ववन्दे पादवारि च ॥ १७८ ॥ आचार्याश्चिन्तयामासुर्महात्मा बालको ऽप्यसौ । श्रुतसागरपारीणो रदयो वज्रास्पदीजवन् ॥ १७ ॥ जानन्तो ऽस्य माहात्म्यं बालस्याप्यन्यसाधवः । कुर्वन्ति न यथावज्ञां प्रयतिष्यामहे तथा ॥ १८० ॥ इत्याचार्या विजाव शिष्येभ्यो ऽकथयन्निति । यास्यामो ग्रामममुकं द्वित्रोहं तत्र नः स्थितिः ॥ १८२ ॥ १ स्खलितगतिः । २ द्वित्रदिनम् । For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy