SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International तस्य धौ तनुजन्मानावभूतां क्रमयोगतः । ज्यायानृषनदत्ताख्यो जिनदासानिधो लघुः ॥ २७० ॥ ज्यायान तिसदाचारो द्यूतादिव्यसनी लघुः । तौ धावाद्यन्त युगयोः प्रत्यक्षे श्व वर्ष्मण ॥ २७१ ॥ ततश्वर्षजदत्तेन जिनदासः सुमेधसा । त्यक्तो दुराचार इति सर्वस्वजनसाक्षिकम् ॥ २७२ ॥ मातृकोऽस्मीति ज्येष्ठः स श्रेष्ठिसूर्वदन् । कनिष्ठस्य शुन इव प्रवेष्टुं न गृहेऽप्यदात् ॥ २७३ ॥ जिनदासोऽन्यदा दीव्यन्नन्येन द्यूतकारिणा । संजातद्यूतकलहे सद्योऽस्त्रेण न्यहन्यत ॥ २७४ ॥ फलं द्यूतविषतरोरायुधाघातवेदनम् । जिनदासोऽन्वङ्क श्व भूमितले लुग्न् ॥ २७५ ॥ स्वजनाश्चर्षजदत्तमूचुर्मो परमाईत । प्राणिमात्रसाधारिण्या दयया जीवयानुजम् ॥ २७६ ॥ पात्र की तेर्विशुद्धायाः स बन्धुः स च नायकः । यो बन्धुं सेवकं चान्युद्धरते व्यसनावटात् ॥ २७9 ॥ रुषोऽप्यन्यधाजत्वावरजं स्वजनेरितः । समाश्वसिहि हे वत्स त्रास्ये त्वामौषधादिनिः ॥ २७८ ॥ जगाद जिनदासोऽपि क्षमस्व मम दुर्नयान् । कार्यमामुष्मिकं कुर्या जीवितव्यास्पृहस्य मे ॥ २७९ ॥ प्रय परलोकाध्वप्रस्थितस्य ममाधुना । धर्मोपदेशपाथेयमार्यानशनपूर्वकम् ॥ २८० ॥ शेषनोऽप्यन्वशादेवमनुजं निर्ममो जव । जप स्ववमनाः पञ्चपरमेष्ठिनमस्क्रियाम् ॥ २०९ ॥ एवमाद्यनुशिष्यानुजन्मानमृषनः स्वयम् । श्राराधनां सानशनां कारयामास शुद्धधीः ॥ २०२ ॥ विपद्य जिनदासोऽपि तेन पण्डितमृत्युना । जम्बूद्दीपाधिपो जज्ञे देवोऽयं परमर्द्धिकः ॥ २८३ ॥ छायं चास्मद्वचोऽश्रौषीद्यप्राजगृहपत्तने । केवली चरमो जावी जम्बूऋषभदत्तजः ॥ २८४ ॥ १ शरीरे, द्विवचनम् । २ अंधकूपात् गर्भातू । For Personal and Private Use Only jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy