________________
प्रथमः
॥ ए ॥
Jain Educationamentalisonal
1
सोमचन्द्रः प्रसन्नश्च ततो वल्कलची रिणम् । सुरार्पितय तिलिङ्गं प्राप्तबोधौ प्रणेमतुः ॥ २९४ ॥ वयं च समवासा विहरन्तोऽन्यदा नृप । उद्याने पोतनप्रत्यासन्ने नाम्ना मनोरमे ॥ २५५ ॥ प्रत्येकबुद्धः पितरं निजं वटकलचीर्यपि । श्रर्पयित्वा तदास्माकं गतोऽन्यत्र नराधिप ॥ २५६ ॥ राजा प्रसन्नचन्द्रोऽपि प्रययौ पोतनं पुरम् । तस्थौ च स्थिरवैराग्यो वाग्निर्वटकलची रिणः ॥ २५७ ॥ तदा प्रसन्नचन्द्रः स्वे राज्येऽर्द्धमपि नन्दनम् । स्वयं न्यस्य विरक्तात्मा प्रात्राजीदस्मदन्तिके ॥ २५८ ॥ एवमाख्याय विरते श्रीवीरे परमेश्वरे । ददर्श देवसम्पातमाकाशे मगधेश्वरः ॥ २५९ ॥
श्रेणिको जूयः प्रणम्य जगदीश्वरम् । किमेष देवसम्पातो दृश्यते द्योतिताम्बरः ॥ २६० ॥ स्वाम्यप्याख्यत्प्रसन्नर्षेरुत्पन्नमिह केवलम् । कर्तुं च तन्महिमानममराः सम्पतन्त्यमी ॥ २६१ ॥ पुनर्विज्ञपयामास जिनेन्द्रं मगधाधिपः । जगवन्केवलज्ञानं कस्मिन्व्युच्छेदमेष्यति ॥ २६२ ॥ restarts विद्युन्माली सुरो ह्यसौ । सामानिको ब्रह्मेन्द्रस्य चतुर्देवी समावृतः ॥ २६३ ॥ श्रमुष्मात्सप्तमेऽह्नि च्युत्वा जावी पुरे तव । श्रेष्ठिऋषजदत्तस्य जम्बूः पुत्रोऽन्त्य केवखी ॥ २६४ ॥ राजापृष्ठदसौ यद्यासन्नप्रच्यवनोऽमरः । तेजोऽस्य तत्किमक्षीणमथाचख्यौ जगरुः ॥ २६५ ॥ राजन्नेकावताराणामन्तकालेऽपि नाकिनाम् । तेजःक्षयादिच्यवन खिङ्गान्याविर्भवन्ति न ॥ २६६ ॥ तदा मुदानादृताख्यो जम्बूद्दीपपतिः सुरः । शब्देन महतावादिदहो मे कुलमुत्तमम् ॥ २६७ ॥ तदा च श्रेणिकोऽपृगवन्तं कृताञ्जलिः । देवोऽयमेवं स्वकुलप्रशंसां कुरुते कुतः ॥ २६८ ॥ सर्वज्ञः कथयामास राजन्नचैव पत्तने । इज्यो गुप्तमतिर्नाम बभूव जुवि विश्रुतः ॥ २६९ ॥
For Personal and Private Use Only
सर्गः
॥ ॥
www.jainelibrary.org