SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अष्टमः ॥ ७८ ॥ इति निश्चित्य तत्रागात्प्रविश्य च नृपौकसि । अग्रे दत्तेष्वासनेषु निषसादादिमासने ॥ २१६ ॥ चाणक्येन तदाक्रान्तमासनं प्रथमं सदा । नन्द एव ह्यलञ्चक्रे तस्य जासनं हि तत् ॥ २१७ ॥ नन्देन च सहायातो नन्दपुत्रस्तदावदत् । ब्राह्मणो निषसादेष छायामाक्रम्य भूपतेः ॥ ११८ ॥ राज्ञो दास्यैकया प्रोचे चाणक्यः सामपूर्वकम् । निषीदास्मिन्द्वितीयस्मिन्नासने त्वमदो द्विज ॥ २१९ ॥ कमसुर्मदीयो ऽत्र स्थास्यतीत्यनिधाय सः । कमएमयुं न्यधात्तत्र नौज्जत्प्रथममासनम् ॥ २२० ॥ एवं तृतीयं दमेन चतुर्थ जपमालया । पश्चमं चोपवीतेनोत्थाप्यमानो रुरोध सः ॥ २२१ ॥ दास्यवोचदहो धृष्टो न मुञ्चत्याद्यमासनम् । विशेषो ऽयं यदन्यान्यप्यासनानि रुद्भ्यसौ ॥ २२२ ॥ तत्किमेतेन धृष्टेन वातुलेन द्विजन्मना । पादेनाहत्य चाणक्यमित्युत्थापयति स्म सा ॥ २२३ ॥ चाणक्यस्तत्क्षणाद्रुष्टो दएमघृष्ट इवोरगः । पश्यतः सर्वलोकस्य प्रतिज्ञामकरोदिमाम् ॥ २२४ ॥ सकोशनृत्यं ससुहृत्पुत्रं सबलवाहनम् । नन्दमुन्मूलयिष्यामि महावायुरिव द्रुमम् ॥ २२५ ॥* श्राध्मातताम्रताम्रास्यो ज्वलन्वह्निरिव क्रुधा । नगरान्निरगान्मङ्क्षु सभ्रूपं चणिप्रसूः ॥ २२६ ॥ धीमतां मौलिमाणिक्यं चाणक्यश्चास्मरत्किल । यद्विम्बान्तरितो ऽह हि जविष्यामि महीपतिः ॥ २२७ ॥ स राज्य नरं कंचित्पश्यामीत्यभ्रमद्भुवि । अपमानान्नापमानं विस्मरन्त्यभिमानिनः ॥ २२८ ॥ वणेश्वरी कुक्षिजन्मा विजन्मा सो ऽन्यदा ययौ । मयूरपोषका यत्रावात्सुर्नन्दमहीपतेः ॥ २२ ॥ मयूरपोषकग्रामे तस्मिंश्च चणिनन्दनः । प्राविशत्कण निक्षार्थ परिव्राजकवेषनृत् ॥ २३० ॥ * असंहृत्य नृपं नन्दमखर्वगर्वपर्वतं । छुटिष्यति शिखा नैषा कालरात्रिवि द्विषां ॥ इत्थं महापइन्नं कुणमाणो सो गले गहेऊणं । जं रोयह तं कुज्जा इय भणिरनरेहि निच्छूढो ॥ For Personal and Private Use Only Jain Educationa International ॥ ५८ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy