SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अष्टमः ॥७२॥ ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले व्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक्॥३०॥ प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रामदंहिणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतस्ततः॥३१॥ स एवं विदधे नित्यं जनस्तेन विसिमिये । तच्च श्रुत्वा जनश्रुत्या राजाशंसत मन्त्रिणे ॥३॥ इदं यद्यस्ति सत्यं तत्पातीक्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३३ ॥ दत्त्वा शिक्षा चरः सायं प्रेषितस्तत्र मन्त्रिणा। शरस्तम्बनितीनो ऽस्थात्पदीवानुपलक्षितः॥३४॥ तदा वररुचिर्गत्वा बुवं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्धि न्यस्य ययौ गृहे ॥ ॥३५॥ तज्जीवितमिवादाय दीनारग्रन्थिमादरात् । चरः समर्पयामास प्रचन्नं वरमन्त्रिणे ॥३६॥ अथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाधररुचिस्तदा ॥३७॥ अष्टकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः॥३०॥ स्तुत्यन्ते ऽचालयद्यन्त्रं यदा वररुचिः परम् । दीनारग्रन्धिरुत्पत्य नापतत्पाणिकोटरे ॥ ३५ ॥ ग्रन्थिं गवेषयामास पाणिना तकाले ततः । सो ऽस्थादपश्यंस्तूष्णीको धूर्तो घृष्टो हि मौनजाक् ॥३०॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी। न्यासीकृतमपि व्यं गवेषयसि यन्मुहुः॥४१॥ उपलक्ष्य गृहाणेदं निजव्यमिति ब्रुवन् । सो ऽर्पयामास दीनारग्रन्थिं वररुचेः करे ॥४॥ दीनारग्रन्थिना तेनोत्सापर्हद्रन्थिनेव सः । दशामासादयामास मरणादपि दुःसहाम् ॥ ३ ॥ विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । अव्यं प्रातः पुनगुहातीत्यूचे सचिवो नृपम् ॥ ४ ॥ साधु जातमिदं बनेत्यालपन्मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागान्महीपतिः ॥ ४५ ॥ ॥ ॥ For Personal and Private Use Only www.jainelibrary.org JainEducationanthan
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy