SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सन्तुष्टया तयान्येद्युः कार्य पृष्टो ऽब्रवीदिदम् । राज्ञः पुरस्तान्मे काव्यं तव जर्ता प्रशंसतु ॥ १५ ॥ तया तछुपरोधेन तविज्ञप्तो ऽवदत्पतिः। मिथ्यादृष्टेरमुष्याहं प्रशंसामि कथं वचः ॥१६॥ तयोकः साग्रहं मन्त्री तत्तथा प्रत्यपद्यत । अन्धस्त्रीबाखमूर्खाणामाग्रहो बलवान्खलु ॥ १७ ॥ राज्ञः पुरस्तात्पठतः काव्यं वररुचेस्ततः। अहो सुजाषितमिति वर्णयामास मन्त्रिराट् ॥१७॥ दीनारशतमष्टाग्रं ततो ऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया ॥१॥ दीनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद्दीयत इति नूपं मन्त्री व्यजिज्ञपत् ॥२०॥ श्रथोचे नृपतिर्मनिन्दमो ऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्मो दद्मः किं न पुरा ततः॥१॥ मन्त्र्यप्यूचे मया देव प्रशंसा नास्य निर्मिता। काव्यानि परकीयाणि प्राशंसिपमहं तदा ॥१२॥ पुरो नः परकाव्यानि स्वकीकृत्य परत्ययम् । किमेतत्सत्यजावेनेत्यनापत नृपस्ततः ॥ २३ ॥ एतत्पवितकाव्यानि पठन्तीर्बालिका थपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवो ऽपि च ॥२४॥ यक्षा यददत्ता जूता जूतदत्तैणिका तथा । वेणा रेणेति सप्तासन्प्राज्ञाः पुत्र्यस्तु मन्त्रिणः॥२५॥ गृह्णाति ज्यायसी तासां सकृयुक्तं तथेतराः। दिव्यादिवारक्रमतो गृहन्ति स्म यथाक्रमम् ॥२६॥ राज्ञः समीपं सचिवो दितीये हि निनाय ताः। तिरस्करिण्यन्तरिताः' समुपावेशयच्च सः॥२७॥ अष्टोत्तरशतं श्लोकान्स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्तास्तु यथाज्येष्ठमनूचिरे ॥२७॥ ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहमाः॥श्ए॥ १ जवनिकाच्छादिताः Jain Education International For Personal and Private Use Only w ainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy