SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International तपोनिनातिदीप्रेण दग्ध्वा कर्ममहामलम् । श्रनिशौचांशुकमिव स श्रात्मानमशोधयत् ॥ ९१ ॥ सक्रमेण परिणतचरित्रज्ञानदर्शनः । श्राचार्यवर्यधुर्यो ऽभूत्स्वगवाम्नोजनास्करः ॥ २ ॥ स मुनिः सपरीवारो वृद्धत्वे विहरन्ययौ । नगरं पुष्पजाख्यं गङ्गातट विभूषणम् ॥ ए३ ॥ तन्त्राभूद्भूपतिः पुष्पकेतुस्तस्य तु वजा । मीनकेतोरिव रतिः पुष्पवत्यनिधानतः ॥ ४ ॥ पुष्पवत्या अनूतां च पुत्रः पुत्री च युग्मजौ । पुष्पचूलः पुष्पचूला चेति नाम तयोरभूत् ॥ एए ॥ सदैव वर्धमानौ तौ रममाणौ सदैव च । परस्परं प्रीतिमन्तावुभावपि बभूवतुः ॥ ए६ ॥ दध्यौ च राजा यद्येतौ दारकौ स्नेहलौ मिथः । वियुज्येते तदा नूनं मनागपि न जीवतः ॥ ए ॥ वियोगमनयोश्चाहमपि सोढुमनीश्वरः । मिथस्तदनयोरेव युक्तं वीवाहमङ्गलम् ॥ ए८ ॥ मित्राणि मन्त्रिणः पौरानथ पल भूपतिः । अन्तःपुरे यदुत्पन्नं रत्नं तस्य क ईश्वरः ॥ एए ॥ ते प्रोचुर्देशमध्ये ऽपि रलमुत्पद्यते हि यत् । तस्येश्वरो नरपतिः का कथान्तःपुरे पुनः ॥ १०० ॥ यद्यदुत्पद्यते रत्नं स्वदेशे तदिलापतिः । यथेष्ठं विनियुञ्जीत को हि तस्यास्तु बाधकः ॥ १०१ ॥ तेषां जावान जिज्ञानामालम्ब्य वचनं नृपः । सम्बन्धं घटयामास निजदारकयोस्तयोः ॥ १०२ ॥ तस्य राज्ञी पुष्पवती श्राविकानूसया नृपः । श्रवार्यत तथा कुर्वन्न तु तामप्यजीगणत् ॥ १०३ ॥ ततश्च पुष्पचूलश्च पुष्पचूला च दम्पती । गृहिधर्म सिषेवाते नितान्तमनुरागिणौ ॥ १०४ ॥ क्रमेण पुष्पकेतौ तु कथाशेषत्वमीयुषि । पुष्पचूलो ऽनवाजा राजमानो ऽमलैर्गुणैः ॥ १०५ ॥ तदकृत्यं वारयन्ती तदा पत्यापमानिता । राज्ञी पुष्पवती जातनिर्वेदा व्रतमाददे ॥ १०६ ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy