________________
Jain Education
अपत्यजन्मावधि जो यद्येवं कर्तुमीश्वरः । तदुद्वहतु मे जामिं देवदत्तो ऽन्निकामिमाम् ॥ ६० ॥ देवदत्तानुज्ञया ते ऽप्यमिति प्रतिपेदिरे । देवदत्तो ऽपि तां कन्यां परिणिन्ये शुभे ऽहनि ॥ ६१ ॥ तत्र तस्यान्निकाप्रेमतन्तुबद्धस्य तिष्ठतः । प्रैष्युदग्मथुरास्थाच्यां पितृभ्यां लेख ईदृशः ॥ ६२ ॥
वां हि चक्षुर्विकलौ चतुरिन्द्रियतां गतौ । जराजर्जरसर्वाङ्गावासन्नयमशासनौ ॥ ६३ ॥ आयुष्मन्यदि जीवन्तौ कुलीनस्त्वं दिदृक्षसे । तदेद्युद्दापय दृशावावयोरुदतोः सतोः ॥ ६४ ॥ युग्मम् ॥ सो sवाचयच्च तं लेखं स्नेहाम्नोधिनिशाकरम् । निरन्तरक्षरन्नेत्रनीरपात्रीचकार च ॥ ६५ ॥ चिन्तयच्च धिग्धिग्मां पितरौ विस्मृतौ हि मे । श्रहं विषयमनो ऽस्मि पित्रोः पुनरियं दशा ॥ ६६ ॥ किं करोमि कथं या पत्नी नापत्यदृश्वरी । निजवाक्पाशबद्धस्य का गतिमें जविष्यति ॥ ६७ ॥ निकापि हि तन्त्रमार्जनेन स्वमंशुकम् । क्लेदयन्ती जगादैवं सद्यस्तद्दुःखदुःखिता ॥ ६८ ॥ नैष प्रहितो लेख धत्ते चान्द्रमसीं कलाम् । प्रावयन्वारि दुर्वारं त्वन्नेत्रचन्द्रकान्तयोः ॥ ६९ ॥ दिवेन्दुनिजमालोक्य निष्कलापं मुखं तव । निश्चिनोम्यश्रुपूरो ऽयं दुःखजो न तु हर्षजः ॥ ७० ॥ दुःखाख्यानप्रसादेन तत्सम्भावय मामपि । ममाप्यस्तु वदुःखसं विज्ञागधुरीता ॥ ७१ ॥ नादात्प्रत्युत्तरं किञ्चिदुःखजागन्निकापतिः । तस्थौ तु स्नपयन्नेव तं लेखं नयनोदकैः ॥ ७२ ॥
नापि हि तं लेखमादायावाचयत्स्वयम् । तद्दुःखकारणं सद्यो विवेद च जगाद च ॥ ७३ ॥ सर्वथा मा कृथा दुःखमार्यपुत्राचिरादहम् । भ्रातरं बोधयिष्यामि कारयिष्ये त्वदीप्सितम् ॥ ७४ ॥ गत्वा चोचे चातरं स्वं नितरां कुपितेव सा । इदं विवेकिन्हे प्रातर्भवता किमनुष्ठितम् ॥ ७५ ॥
For Personal and Private Use Only
www.jainelibrary.org