SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International कस्य नेष्ट वियोगेन शोकः स्यानवता पुनः । नुक्तान्नवत्स जार्यो (नार्या) हि लका स्यादन्यथा तव ॥३०॥ या स्यालोक एवेह नगरे वसतस्तव । तदन्यन्नगरं क्वापि निवेशय विशाम्पते ॥ ३१ ॥ पुरा पुरं राजगृहं कुणिकोऽपि पिता तव । हित्वा पितृशुचाकार्षीदिमां चम्पानिधां पुरीम् ॥ ३२ ॥ उदाय्यपि समाहूय नैमित्तिकवरानथ । स्थानं पुर निवेशार्ह गवेषयितुमादिशत् ॥ ३३ ॥ dsपि सर्वत्र पश्यन्तः प्रदेशानुत्तरोत्तरान् । ययुर्गङ्गातटे रम्ये दृशां विश्रामधामनि ॥ ३४ ॥ ते तत्र ददृशुः पुष्पपाटलं पाटलिमम् । पत्रलं बहुलच्छायमातपत्रमिवावनेः ॥ ३५ ॥ ४० ॥ हो उद्यानवाह्यो ऽपि सकलापोऽयमंहिपः । इत्थं चमत्कृतास्तत्र ते ऽप्राक्षुश्चापपक्षिणम् ॥ ३६ ॥ शाखानिषणः स खगो व्याददौ वदनं मुदुः । कवलीनवितुं तत्र निपेतुः कीटिकाः स्वयम् ॥ ३७ ॥ ते ऽचिन्तयन्निहोद्देशे पक्षिणो ऽस्य यथा मुखे । कीटिकाः स्वयमागत्य निपतन्ति निरन्तरम् ॥ ३० ॥ तथास्मिन्नुत्तमे स्थाने नगरे ऽपि निवेशिते । राज्ञः पुण्यात्मनोऽमुष्य स्वयमेष्यन्ति सम्पदः ॥ ३९ ॥ इति निर्णीय तत्स्थानं नगराई महीपतेः । श्राख्यान्ति स्म विवृण्वन्तो निमित्तं चापलक्षणम् ॥ नैमित्तिकश्चैको जगाद वदतां वरः । पाटलेयं न सामान्या ज्ञानिना कथिता पुरा ॥ ४१ ॥ तथाहि स्तो नगर्यौ मथुरे दक्षिणोत्तरे । समानसौन्दर्यगुणे स्वसारौ युग्मजे इव ॥ ४२ ॥ अदग्मथुरायां देवदत्तो वणिक्सुतः । दक्षिणस्यां मथुरायां दिग्यात्रार्थमियाय सः ॥ ४३ ॥ वणिक्पुत्रजयसिंहेनानवत्तस्य सौहृदम् । तावन्योन्यं प्रपेदाते रहस्यैकनिधानताम् ॥ ४४ ॥ १ पुष्पैः रक्तं For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy