________________
Jain Educationa International
षष्ठः सर्गः अथ श्रीमान्यशोजप्रसूरिः पूरितदिग्यशाः । तुर्यादिनिः कृताहारो विजहार वसुन्धराम् ॥ १ ॥ धर्मेणापन स चतुर्दशपूर्वनृत् । विश्वमप्रीणयद्विस्वं जीमूत इव वारिणा ॥ २ ॥ मेधाविन बाडुसम्भूतविजयौ मुनी । चतुर्दशपूर्वधरौ तस्य शिष्यौ बभूवतुः ॥ ३॥ सूरिः श्रीमान्यशोषः श्रुतनिध्योस्तयोर्द्वयोः । स्वमाचार्यत्वमारोप्य परलोकमसाधयत् ॥ ४ ॥ बाहुङ्करोऽथ विहरन्नुवि । क्षमाश्रमणसङ्खेन राजन्राजगृहं ॥ ५ ॥ चत्वारो वणिजस्तस्मिन्पुरे सवयसो ऽजवन् । उद्यानद्रुमवद्वृद्धिं जग्मिवांसः सहैव हि ॥ ६ ॥ सन्निधौ वाहोस्ते धर्म शुश्रुवुरार्हतम् । कषायाग्निजलासारं प्रतिबोधं च लेनिरे ॥ ७ ॥ श्री बाहुपादान्ते दान्तात्मानः सहैव ते । प्रब्रज्यामाशु जगृहुर्गृहवासपर । ङमुखाः ॥ ८ ॥ तप्यमानास्तपस्तीत्रमुपार्जितबहुश्रुताः । युगमात्रदत्तदृशो विहरन्तो महीतले ॥ ए ॥ प्रियां तथ्यां मितां वाचं वदन्तः कुक्षिशम्बलाः । निरीहा निर्ममाः साम्यवन्तः सन्तोषशालिनः ॥ १० ॥ धर्मोपदेशप्रवणाः करुणारससागराः । ते गुरोर्हृदये ऽविक्षन्सरसीव सितचदाः ॥ ११ ॥ त्रिनिर्विशेषकं ॥ गुरोरनुज्ञयैकाकि विहारप्रतिमाधराः । ते विहृत्य विहृत्यागुः पुना राजगृहं पुरम् ॥ १२ ॥ तदा दरिजानां दन्तवीणाप्रवादकः । पद्मिनी पद्मकोशेषु हिममग्निमिव क्षिपन् ॥ १३ ॥ तालिङ्गनजुषां यूनां प्रणयकोपहृत् । ज्वलदङ्गारशकटी निकटीजवदीश्वरैः ॥ १४ ॥ १ उपवासाद्यैः २ धर्मद्रव्यरहितं मेघपक्षे जलधनरहितम् ३ हंसाः ४ ईश्वरो धनाढ्यः
For Personal and Private Use Only
www.jainelibrary.org