SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तन्ममैव सकाशे त्वं परिव्रज्यां शुनाशय । प्रतिपद्यस्व को नाम लेदः पितृपितृव्ययोः ॥ ७॥ सूरिस्त बालमादाय जगामाथू प्रतिश्रयम् । अद्य लाजः सचित्तो ऽजूदिति चालोचयत्स्वयम् ॥ ७॥ सर्वसावद्यविरतिप्रतिपादनपूर्वकम् । तमबालधियं बालं सूरिव॑तमजिग्रहत् ॥ ७० ॥ उपयोगं ददौ सूरिःकियदस्यायुरित्यथ । षण्मासान्यावदस्तीति तच्च सद्यो विवेद सः॥१॥ एवं च चिन्तयामास शय्यम्नवमहामुनिः। अत्यल्पायुरयं बालो जावी श्रुतधरः कथम् ॥ ॥ अपश्चिमो दशपूर्वी श्रुतसारं समुघरेत् । चतुर्दशपूर्वधरः पुनः केनापि हेतुना ॥ ३ ॥ मणकप्रतिबोधे हि कारणे ऽस्मिन्नुपस्थिते । तऽघराम्यहमपि सिद्धान्तार्थसमुच्चयम् ॥४॥ सिद्धान्तसारमुद्धृत्याचार्यः शय्यम्नवस्तदा । दशवकालिकं नाम श्रुतस्कन्धमुदाहरत् ॥ ०५॥ कृतं विकालवेलायां दशाध्ययनगर्जितम् । दशवकालिकमिति नाम्ना शास्त्रं बनूव तत् ॥ ६॥ अपाग्यन्मणकं तं ग्रन्थं निर्ग्रन्यपुङ्गवः। श्रीमाशय्यम्नवाचार्यवर्यो धुर्यः कृपावताम् ॥ ७॥ श्राराधनादिकं कृत्यं कारितः सूरिजिः स्वयम् । षण्मासान्ते तु मणकः काखं कृत्वा दिवं ययौ ॥॥ विपेदाने तु मणके श्रीशय्यम्नवसूरयः। अवर्षन्नयनैरश्रुजलं शारदमेघवत् ॥ ७ ॥ यशोजमादिन्तिः शिष्यैरथ :खितविस्मितैः । सूरिर्व्याप्यनर्ह वः किमिदं हेतुरत्र कः॥ ए०॥ ततो मणकवृत्तान्तं सुतसम्बन्धबन्धुरम् । शिष्येच्यो ऽकथयत्सूरिस्तजन्म मरणावधि ॥ ए१॥ उवाच चैष बालो ऽपि कालेनाल्पीयसापि हि । पालितामलचारित्रो ऽकार्षीत्कालं समाधिना ॥ ए॥ बालो ऽप्ययमबालो ऽनूच्चरित्रणेति सम्मदात् । अस्माकमश्रुसम्पातः पुत्रस्नेहो हि कुस्त्यजः ॥ ए३ ॥ १ अय्यः Jain E lenantematonal For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy