SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International निक्षामदित्सु निर्विप्रैर्विसृष्टावथ तौ मुनी । गुर्वादिष्टमहो कष्टमित्याद्यूचतुरुच्चकैः ॥ १५ ॥ अध्वरे दीक्षितस्तस्मिन्नाम्ना शय्यम्नवो द्विजः । यज्ञवाटद्वारदेशस्थितो ऽश्रौष ६चस्तयोः ॥ १६ ॥ अचिन्तयच्चोपशमप्रधानाः साधवो ह्यमी । न मृषावादिन इति तत्त्वे सन्देग्धि मे मनः ॥ १७ ॥ इति सन्देहदोला धिरूढेन मनसा स तु । किं तत्त्वमिति पप्रहोपाध्यायं सुधियां वरः ॥ १८ ॥ उपाध्यायो ऽवदत्तत्त्वं वेदाः स्वर्गापवर्गदाः । न वेदेभ्यो ऽपरं तत्त्वमिति तत्त्वविदो विदुः ॥ १९ ॥ शय्यम्वो ऽन्यधान्नूनं प्रतारयसि मादृशान् । यज्ञादिददिणालोजा घेदास्तत्त्वमिति ब्रुवन् ॥ २० ॥ वीद्वेषा वीतरागा निर्ममा निष्परिग्रहाः । शान्ता महर्षयो नैते वदन्ति वितथं क्वचित् ॥ २१ ॥ गुरुत्वं त्वया ह्येतश्विमाजन्म वञ्चितम् । नितान्तं शिक्षणीयो ऽसि प्रत्युताद्य पुराशय ॥ २२ ॥ यथावस्थितमाख्याहि तत्त्वमेवं स्थितेऽपि जोः । नो चेछेत्स्यामि ते मौलिं न हत्या दुष्टनिग्रहे ॥ २३ ॥ इति कोषाच्चकर्षा सिमाकृष्टा सिरल हि सः । तन्मृत्युवाचनायात्तपत्रः साक्षादिवान्तकः ॥ २४ ॥ उपाध्यायो ऽप्यदो दध्यौ मिमारयिषुरेष माम् । यथास्थतत्त्वकथने समयो ऽयमुपागतः ॥ २५ ॥ इदं च पठ्यते वेदेष्वाम्नायो ऽप्येष नः सदा । कथ्यं यथातथं तत्त्वं शिरश्छेदे हि नान्यथा ॥ २६ ॥ तस्मात्प्रकाशयाम्याशु तत्त्वमस्मै यथातथम् । यथा जीवामि जीवन्हि नरो नाणि पश्यति ॥ २७ ॥ इत्याचख्यावुपाध्यायो ध्यायन्कुशलमात्मनः । अमुष्य यूपस्याधस्तान्यस्तास्ति प्रतिमाहतः ॥ २८ ॥ पूज्यते ऽधस्थितैवात्र प्रछन्नं प्रतिमाईती । तत्प्रजावेन निर्विघ्नमिदं यज्ञादि कर्म नः ॥ २ए ॥ महातपाः सिपुत्रो नारदः परमाईतः । अवश्यमध्वरं हन्ति प्रतिमामाईतीं विना ॥ ३० ॥ For Personal and Private Use Only ৬+৬ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy