SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ तदा तदर्थमुत्थिताऽहं तवापि दास्यामीति, ततश्च साधावागते तस्य भिक्षादानायोत्थिता बालस्यापि ददातीति उत्ष्वष्कणं, एवं बालस्य पुम्भिकादिकर्त्तनं यावद्विलम्बयन्त्यपि साधुसमागमे तद्दानायोत्थिता बालकमपि ददातीति अवष्वष्कणमिति, तत्र च खयोगप्रवृत्तिकालावधेरुत्-ऊर्द्ध पुरतः प्वष्कणं-आरम्भकरणं उत्ष्वकणं, तथा स्खयोगप्रवृत्तिकालावधेरव-अर्वाक वष्कणं अवष्वष्कणमिति शब्दार्थः ६ । यदन्धकारव्यवस्थितस्य चक्षुरविषयतया साधूनामकल्प्यतां परिभाव्य वहिप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिनिष्काश्य द्रव्यधारणेन वा प्रकटकरणं तत्प्रादुष्करणम् , इदं च द्विधा-देयवस्तुनः प्रकाशनेन, गृहान्तर्वर्त्तिन्यास्तु या (वस्तूनां) बहिकरणेन च । यत्साध्वर्थ मूल्येन क्रीयते तक्रीतं, तच्चतुर्दा-वद्रव्य १ खभाव २ परद्रव्य ३ परभावक्रीत ४ भेदात्, तत्र गृहिणोऽर्पितेन चूर्णगुटिकादिना साधुर्यल्लभते तत् स्वद्रव्यक्रीतं १, भक्ताद्यर्थं धर्मकथाख्यानं तेन यदवास तत्वभावक्रीतं २, गृहस्थः सचित्ताचित्तमिश्रभेदद्रव्येण साध्वर्थ क्रीत्वा दत्ते तत्परद्रव्यक्रीतं ३, साधुभक्तो मङ्खगायनादिः खविज्ञानेन रञ्जिताजनाद्याचित्वा यदत्ते तत्परभावक्रीतं ४, ८ । यत्साध्वर्थमन्नादि वस्तु उच्छिनमानीयते तत्प्रामित्यकं, तच्च लौकिकलोकोत्तरभेदाद् द्विविधं, तत्र गृहस्थेनोच्छिन्नमानीय साधुभ्यो दत्तं लौकिकं, साधुभिर्मिथ एवान्यार्पणबुद्ध्या वस्त्रादिकमुद्धारे गृह्यमाणं लोकोत्तरं । खद्रव्यं घृतादि दुर्गन्धं दत्त्वा परद्रव्यं सुगन्धिघृतायेव गृहीत्वा यद्दीयते तत्परिवर्तितम् , इदमपि प्राग्वद् द्विविधं १०। गृहग्रामादेः साध्वर्थं यत्स|म्मुखमानीतं तदभ्याहृतं, तच्च प्रकटं पातं, छन्नं च परैरलक्ष्यं, तथाऽऽचीर्णानाचीर्णादि बहुविधं, आचीर्ण पुन Jain Education Intel For Private & Personel Use Only Shjainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy