SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विभागभेदाद द्विविधं, तत्रौघेन-सामान्येन खपरविभागकरणाभावरूपेण स्वार्थ एव पाकादौ कियद्भागभिक्षादानबुद्ध्या कतिपयतण्डुलाधिकप्रक्षेपेण निवृत्तमोघौद्देशिकं, एतच्च प्रायो दुर्भिक्षापगमे कस्यचिनिन एवं विकल्प उत्पद्यते-यदस्मिन् दुर्भिक्षे कथमपि जीविताः स्मः तहीदानीं नित्यं कियन्मानं दीयते इति पुण्योपार्जनबुद्ध्या यावदर्थिकानामर्थमधिकतरपाकारम्भे भवति, तत्रैतावत्वार्थमेतावच दानार्थमिति विभागकरणाभावात्, कल्पितदिनादूर्द्ध चैतच्छुद्धं । विभागौद्देशिकं तु वीवाहादौ यदुद्धरितं तत्पृथकृत्वा दानाय कल्पितं सद्भवति, तत्र खसत्ताया उत्तार्य दानार्थ पृथक्करणात्, तच्च विधा-उद्दिष्ट १ कृत २ कर्म ३ भेदात्, तत्र स्वार्थनिष्पन्नौदनादेः संखण्ड्यादावुद्धरितस्य भिक्षणां दानाय पृथक्कल्पितमुद्दिष्टौदेशिकं १, यत्पुनरुद्धरितमोदनादि भिक्षादानाय दध्यादिना मिश्रीकृतं तत् कृतौद्देशिकं २, यच्च वीवाहादावुद्धरितं मोदकचूर्णादि भिक्षाचराणां दानाय गुडपा-18 कादिना पुनर्मोदकतया बद्धं तत् कमौद्देशिकं ३ । एकैकं पुनश्चतुर्दा-उद्देश १ समुद्देशा २ ऽऽदेश ३ समादेशभेदात् , तत्र समस्तार्थिनां कृते कल्पितमुद्देशः १, चरकादिपाखण्डिकानामर्थं समुद्देशः २, निर्ग्रन्थशाक्यतापसगैरिकाऽऽजीविकानां श्रमणानां कृते चादेशाख्यं ३, निर्ग्रन्थानां साधूनां कृते तु समादेशाख्य ४ मिति, यतः-"जावंतिअमुद्देसं, पासंडीणं भवे समुद्देसं । समणाणं आएसं, णिग्गंथाणं समाएसं ॥१॥” इति । सर्व-| सङ्ख्यया विभागौद्देशिकं द्वादशविधं एक चौघौद्देशिकमिति त्रयोदशविधमेतद्भवति १, अत्रायं विवेकः-यत्प्रथमत एव साध्वर्थ निष्पादितं तदाधाकर्म, यत्पुनः प्रथम स्वार्थ निष्पादितं तस्य साध्वर्थं पुनः संस्कार औद्दे-12 Jain Education In HALL For Private & Personel Use Only laww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy