________________
Jain Education Inter
हो पुण, आई मज्झे तहेव अवसाणे । अप्पत्ते सइकाले, आईबितिमज्झतइअंते || १||” अप्राप्ते भिक्षाकाले सति। अटतः आदिः, मध्ये भिक्षाकालेऽटतो द्वितीयः, अन्त इति भिक्षाकाले ( लस्य) अवसानेऽटतस्तृतीयः ३ । भावाभिग्रहमाह - "उक्खित्तमाइचरगा, भावजुआ खलु अभिग्गहा हुंति । गायंतो अ रुअंतो, जं देह निसन्नमाई वा ॥ १ ॥ उत्क्षिप्ते भाजनात् पिण्डे चरति गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनात्, त एते भावयुक्ताः खल्वभिग्रहा भवन्ति, भावाभिग्रहा इत्यर्थः, अथवा गायन् रुदन् निषण्णादिर्वा यदा दत्ते तदा ग्रही| ष्यामीत्यादिरूपः । “उस्सक्कण अहिसक्कण, परंमुहोऽलंकिएअरो वावि । भावन्नयरेण जुओ, अह भावाभिग्गहो नाम ||१||" अवसर्पन् उत्सर्पन् पराङ्मुखोऽलङ्कृतः कटकादिना इतरो वा - अनलङ्कृतो वा भावेनाभ्यन्त (नान्य) रेण युक्तः अथायं भावाभिग्रहः ४ । अभिग्रहविषयोपदर्शनायाह - " पुरिसे पडुच्च एए, अभिग्गहा णवरि एत्थ विष्णेआ । सत्ता विचित्तचित्ता, केई सिज्झति एमेव ॥ १ ॥” पुरुषान् प्रतीत्य एवंविधक्रियान्वितविनेयानेते | अभिग्रहा अत्र - शासने नवरं ज्ञेयाः, किमेतदाह-सत्त्वा विचित्रचित्ताः केचन सिद्ध्यन्ति कर्ममलापेक्षया एव| मेव-अभिग्रहसेवनेनेति । अनेन च विधिना पिण्डैषणादिकुशलो यतिर्ज्ञानादित्रयोपघातभूतं पिण्डादि परित्यज्य (यत्) संयमोपकारि तद्वेषयेत् । अधीतपिण्डेषणादिनैव ह्यानीतानि पिण्डादीनि साधूनां कल्पन्ते, न चेतराणि, तदुक्तं दिनचर्यायाम् - "अणहीआ खलु जेणं, पिंडेसणवत्थसिज्जपाएसा । तेणाणिआणि जइणो, कप्पंति न पिंडमाईणि ॥ १ ॥” पिंडादीनीत्यत्रादिशब्दात् शय्यावस्त्रपात्रग्रहः, तथाचार्षम् - "पिंडं सिज्जं च वत्थं च,
For Private & Personal Use Only
jainelibrary.org