________________
हिण्डते, तत्रायं विधिः-ग्रामबहिः स्थित्वा भिक्षावेलां कञ्चन पृच्छति, ततः पूर्णवेलायां सत्यां तदैव पादप्रमार्जनपात्रद्वयप्रत्युपेक्षणप्रमार्जनपूर्व ग्रामे प्रविशति, अपूर्णायां तु तस्यां तां प्रतीक्ष्य प्रविशति, प्रविशंश्च श्रमणाद्यन्यतरपृच्छया तत्र श्रमणान् ज्ञात्वा गत्वा च पूर्व तदुपाश्रये ते चेदेकसामाचारीकास्तदा तान् गुरुवन्दनेन वन्दते, भिन्नसामाचारीकांस्तु बहिरुपकरणं स्थापयित्वा मध्ये प्रविश्य वन्दते, संविग्नपाक्षिकांश्च बहिर्व्यवस्थित एव वन्दित्वाऽवाधां पृच्छति, खरगूडप्रायांस्तांस्तु छोभवन्दनं करोति, ततस्तेषु ग्लानाद्यबाधां पृष्ट्वा उक्त्वा च स्त्रीयागमनहेतुं स्थापनाकुलानि यतनया पृच्छति, तेऽपि तथा वदन्ति, पृच्छायां यतना चाङ्गुल्या अदर्शनादिरूपा, ततः स्थापनाकुलानि प्रतिकुष्टानि च न प्रविशेत् , यतः-"ठवणा मिलक्खु निंदु, अचिअत्तघरं तहेव पडिकुटुं । एअंगणधरमेरं, अइक्कमंतो विराहेजा ॥१॥” इति, प्रतिकुष्टमिति-छिम्पकादिकुलं, तत्र प्रवि-18 शतश्च महादोषः, यतः-"छक्कायदयावंतोऽवि संजओ कुणइ दुल्लहं बोहिं । आहारे नीहारे, दुगुंछिए पिंडगहणे अ| ॥१॥” इति । एवं च भिक्षार्थमटतो मोक्षमेव फलं, विहितानुष्ठानत्वाद्भिक्षाटनस्य, यदुक्तं पञ्चवस्तुके-"हिंडंति तओ पच्छा, अमुच्छिआ एसणाएँ उवउत्ता। दवाइअभिग्गहजुआ मोक्खट्टा सवभावेणं ॥१॥” अभिग्रहः
साध्वाचारविशेषः, स च द्रव्यादिविषयभेदाच्चतुर्विधः, तत्रामुकं द्रव्यममुकेन वा द्रव्यण दीयमानं ग्रहीष्यामीIS त्यादिरूपो द्रव्याभिग्रहः १, अष्टौ गोचरभूमयो गृहादिसङ्ख्याकरणं वा क्षेत्राभिग्रहः २, अतिक्रान्तादौ भिक्षा
कालेऽटनं कालाभिग्रहः ३, उत्क्षिप्तचरादयश्च भावाभिग्रहाः ४, तदुक्तं पञ्चवस्तुके-“लेवडमलेवडं वा, अमुग
Jain Education International
For Private Personel Use Only
www.jainelibrary.org