________________
षणं कर्तव्यं, तथा शामित्तयत्ति भिारणमनुज्ञातम्, यत्त घृतादि दुर्लभ
पकरणमादाय भिक्षागवेषणं कर्त्तव्यं, तथाऽशक्तेन तु आचारभाण्डकं, तच्च पात्रं पटलानि रजोहरणं दण्डकः और्णः क्षौमिकश्चेति कल्पद्वयं मात्रकं चेति ५। 'मत्तय'त्ति भिक्षार्थमटता मात्रकग्रहणं कर्त्तव्यं, न च संसक्तादिकार्यमन्तरा तत्परिभोगः, तथाविधे कार्यजात एव हि मात्रग्रहणमनुज्ञातम्, यतः-"आयरिअंमि गिलाणे, पाहुणए दुल्लहे सहसलामे । संसत्तभत्तपाणे, मत्तगगहणं अणुण्णायं ॥१॥” 'दुल्लहत्ति घृतादि दुर्लभं किञ्चिल्ल-12 भ्यते तदर्थ, 'सहसलाभे'त्ति सहसा-अकस्मात् किश्चित् प्रचुरं लभ्यते ततोऽसंस्तरतांप्रव्रजितानामात्मानं कृच्छ्रेण यापयतामनुग्रहः स्यादित्येतदर्थ ६। काउस्सग्गत्ति-उपयोगकायोत्सर्गः ७। यस्य योग इत्यस्य च भिक्षार्थ गच्छता कथनं 'सपडिवक्खो'त्ति स एवायं द्वारकलापः सप्रतिपक्षः-सापवादो वक्तव्यः। तत्राद्येऽपवाद आचार्यग्लानक्षपकमाघूर्णकादीनामर्थाय बहुशोऽपि प्रविशतीतिरूपः१,तथा ग्लानक्षपकपारणार्थं अतिप्रत्युषसि अतिक्रान्तायामपि भिक्षावेलायां च प्रविशति बहुश इति द्वितीये यतना २, तथाऽनाभोगेन कायिकादिव्युत्सर्गमकृत्वा गतः आसन्ने जाततच्छङ्कः प्रत्यावर्त्तते दूरे गतस्तु भाजनान्यन्यस्मै दत्त्वा कायिकादि व्युत्सृजति । असहिष्णुस्तु आसन्नायामेकसामाचारीकवसतौ तदभावे भिन्नसामाचारीकवसतो तदभावेऽवमग्नवसतौ तद-18 भावे च श्राद्धगृहे तस्याप्यभावे शल्यनिरूपणेन दत्तानुज्ञानस्य वैद्यस्य गृहपृष्ठौ तस्याप्यभावे राजपथे गृहद्व-18 यान्तरालरथ्यायां वा गृहिसकावग्रहेऽपि वा, तत्र च कायिकां न व्युसृजति, किन्तु पुरीष, राजकुले व्यवहारे जायमाने तदुद्धरणेन समाधानस्य कर्तुं शक्यत्वादिति तृतीये यतना ३, तथाऽवमरानिको लब्ध्या गर्वितः सन्ने
Jain Education Inte do
For Private & Personel Use Only
O
w
.jainelibrary.org