SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | "जस्स य जोगमकाऊण निग्गओ न लभेज्ज सच्चित्तं । न य वत्थपायमाई, तेणं गहणे कुणसु तम्हा ॥१॥" यस्य योगमित्येवमकृत्वा -अभणित्वा निर्गतः सन्न लभते - नाभाव्यतया प्राप्नोति, सचित्तं प्रव्रज्यार्थमुपस्थितं गृहस्थं | नाप्यचित्तं - वस्त्रपात्रादि । अथ यदि गृहाति ततः स्तैन्यं भवति, तस्मात् कुरु यस्य योगमिति । एवं चोपयोगकरणे चत्वारि स्थानानि, तदुक्तम्- " आपुच्छणत्ति पढमा, बिइआ पडिपुच्छणा य कायद्वा । आवस्सिआ य तइआ, जस्स य जोगो चउत्थो उ ॥ १ ॥" अत्र चेदमवधेयम् - एषणा त्रिविधा - गवेषणैषणा १ ग्रहणैषणा २ ग्रासैषणा ३ भेदात्, तत्र गवेषणा - भक्तादेर्ग्रहणार्थं विलोकना, तत्काले तद्विषया वा एषणा- उद्गमादिदोषविचारणा गवेषणैषणा १, ग्रहणं - भक्तादेरादानं, तत्काले तद्विषया वा एषणा ग्रहणैषणा २, ग्रासो-भोजनं, तत्काले तद्विषया वा एषणा ग्रासैषणा ३, तत्रायं कायिकीकरणादिः सकलोऽपि विधिर्गवैषणैषणासंबन्धी ज्ञेयः । सा | योघनिर्युक्तावष्टभिर्द्वारैर्विचारिता, तानि चामूनि - "माणे १ काले २ आवस्सए अ ३ संघाडए ४ अ उवगरणे ५ । मत्तय ६ काउस्सग्गो ७, जस्स य जोगो ८ सपडिवक्खो ॥ १ ॥” 'माणं'ति प्रमाणं कतिवारा भिक्षार्थं प्रवेष्टव्यमिति कथनलक्षणं, उत्तरं तु वारद्वयं प्रवेष्टव्यम् । एकमकालसंज्ञायाः पानकनिमित्तं द्वितीयं भिक्षार्थं गमनमिति तद्भाष्यगतो निर्णयो द्वारगाथासंबन्ध एव लिखितः, एवमग्रेऽपि नेयं १ । 'काले' त्ति कस्मिन् काले भिक्षा गवेषणीया ?, तत्र भिक्षाकाले प्रथमपौरुष्यद्धे चेति २, [ कल्पवृत्तौ त्वेवमुक्तम्- क्षपको बालको वृद्धो वा पर्युषितेन प्रथमालिकां कर्त्तुकामः स सूत्रपौरुषीं कृत्वा निर्गच्छति, अथ तावतीं वेलां न प्रतिपालयितुं क्षमस्त For Private & Personal Use Only ww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy