________________
धर्मसंग्रहे अधिकारः
कृत उपयोगे मिक्षाटनं
मङ्गलं नमस्कार कायोत्सर्गे चिंतयन्ति । अत्र पक्षद्वयमाह-"तप्पुवयं जयत्थं, अन्ने उ भणंति धम्मजोगमिणं । गुरुबालबुहसिक्खग एसेमि ण अप्पणो चेव ॥३॥” तत्पूर्वकं-नमस्कारपूर्वकं यदर्थं तच्च चिन्तयन्ति सम्यगनालोचितस्य ग्रहणप्रतिषेधात् यस्माद्यावन्नालोचितं हृदि तावन्न किंचिद्वाचं, अन्ये आचार्या इत्थं भणन्ति-धर्मयोगमेनं चिन्तयन्तीति। किंविशिष्टम् ?-गुरुबालवृद्धशैक्षकैरेषे एतदर्थं न आत्मन एवार्थ, ॥३॥ ततः किम् ? इत्याह"चिन्तेउ तओ पच्छा, मंगलपुर भणंति विणयणया । संदिसहत्ति गुरूविअ, लाभोत्ति भणइ उवउत्तो॥४॥" चिन्तयित्वा च पश्चात् 'मङ्गलपुवंति 'नमो अरिहंताणं'ति भणनपूर्व विनयनता भणन्ति, किमित्याह-संदिशतेति, यूयमनुजानीतेत्यर्थः । गुरुरपि भणति-'लाभो त्ति कालोचितानुकूलानपायित्वात्, उपयुक्तो-निमित्तेष्वसंभ्रान्तः । ततः किमित्याह-"कह घेत्थमोत्ति पच्छा, सविसेसणया भणंति ते सम्मं । आह गुरूवि तहत्ति, जह गहि पुवसाहहिं ॥५॥” ततः कथं गृहीष्यामः ? एवं पश्चात् सविशेषनतास्ते साधवः सम्यग् भणन्ति, ततो गुरुरप्याह-यथागृहीतं पूर्वसाधुभिरित्यनेन गुरोरसाधुपायोग्यभणनप्रतिषेधमाह । “आवस्सिआएँ जस्स य, जोगुत्ति भणित्तु ते उणिग्गंति । णिक्कारणे ण कप्पइ, साहूणं वसहिणिग्गमणं ॥५॥" आवश्यिक्या-साधुक्रियाभिधायिन्या हेतुभूतया 'जस्स य जोगुत्ति' भणित्वा निर्गच्छन्ति वसतेः, तस्यार्थस्त्वेवम्-यस्य वस्तुनो वस्त्रपात्रशैक्षादेर्योगः-संयमोपकारकः संबन्धो भविष्यति, तं गृहिष्यामीत्यर्थः, किमेतदित्याह-निष्कारणे न कल्पते साधूनां वसतिनिर्गमनं, तत्र दोषसम्भवादिति । यस्य योग इत्यस्याकरणे च दोषः, यदुक्तमोघनियुक्ती
॥३४॥
in Education
For Private Personel Use Only
Irww.jainelibrary.org