________________
Jain Education In
पौरुष्यामाचार्याः सूत्रार्थं प्रज्ञापयन्ति, शिष्याश्च शृण्वन्ति, अत एवेयमर्थमण्डली तत्प्रतिबद्धा पौरुषी चार्थपौरुषीत्युच्यते । व्याख्यानान्तरा च प्रत्याख्यानमात्रमपि न देयं, अनुयोगविच्छेदात्, यदुक्तं यतिदिनचर्यायाम्"आरंभिअ अणुओगं, पच्चक्खाणं न दिज्जए जत्थ । अन्नस्स तत्थ वत्तामित्तस्सवि नाम का बत्ता ? ॥ १ ॥” | शीतलविहारिणोऽपि व्याख्यानकर्त्तुः शुद्धप्ररूपणया महती निर्जरा, किं पुनरुद्यतविहारिणो ?, यतः - "ओसन्नो बावारे, कम्मं सोहेइ सुलहबोही अ । चरणकरणं विसुद्धं उवहंतो परूवंतो ॥ १ ॥” श्रोतुश्च गृहस्थसाधुधर्मान्यतरधर्मप्रतिपत्तौ धर्मदेशनाश्रवणसाफल्यं भवति, अगृहीतान्यतरधर्मस्यापि तावत्कालं षट्कायरक्षणरूपं फलं स्पष्टमेव यदुक्तं दिनचर्यायाम् - " जे अगहिअधम्माविहु, जत्तिअकालं सुणंति वक्खाणं । नियमा छज्जीवदया, तेहि कया तत्तिअं कालं ॥ १ ॥ जे उण संमत्तं वा, गिहत्थधम्मं व समणधम्मं वा । गिण्हंति देसणाए, परमत्थो तेहि पडिवन्नो ॥ २ ॥” इति व्याख्यानफलं । साम्प्रतं तदनन्तरकृत्यमाह - 'एव' मित्यादि ' एवं ' अमुना सूत्रार्थव्याख्यानतच्छ्रवणप्रकारेण 'द्वितीयपौरुष्यां' अर्थपौरुष्यां 'पूर्णायां' समाप्तायां सत्यां 'चैत्यवन्दनं' चैत्यनमस्त्रिया तत् सापेक्ष यतिधर्मो भवतीत्यन्वयः, अत्रायं विवेकः- भिक्षाकालेऽपर्याप्ते चैत्यवन्दनं विशेषतो विधेयं, यथा भिक्षाकाल: पर्याप्यते, (अन्यथा) तदनु पौरुषीयुगलं च लवमात्रं हाप्यत इति, तदुक्तं दिनचर्यायाम् - "बिइआए पोरिसीए, पुण्णाए चेइआई वंदिज्जा । खित्तंमि पहुप्पंते, भिक्खायरिआइ कालंमि ॥१॥ अह न पहुप्पह 'कालो, भिक्खाए तयणु पोरिसीजुअलं । हाविज्जसु लवमित्तं, चेइअजिणनाहनमणत्थं ॥ २ ॥ एतेन यस्मिन् क्षेत्रे यो
For Private & Personal Use Only
www.jainelibrary.org