SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ॥३२॥ स्थापना पात्रस्येति, 'पात्रे' पात्रविषया प्रत्युपेक्षणा प्रतिपादिता [ बृहत्कल्पे च प्रतिलेखना पञ्चभिःनिरूपिता, पात्रप्रतितानि चामूनि-“पडिलेहणा उ कालेऽपडिलेहणदोस छसुवि काएसु । पडिगहनिक्खेवणया, पडिलेहणिआ लेखनाविसपडिवक्खा ॥१॥” काले प्रतिलेखना कर्त्तव्याऽप्रतिलेखने प्रायश्चित्तं, 'दोस'त्ति आरभडादिदोषदुष्टां च तां | कुर्वतः प्रायश्चित्तं, षट्सु कायेषु खयमुपधिर्वा प्रतिष्ठितः, अत्र चतुर्भङ्गी, प्रतिग्रहस्य निक्षेपणं वर्षासु विधेयं, प्रतिलेखना सापवादा वक्तव्येति उत्सर्गतो द्वाराणि भावितान्येव । अथापवादो-यथाऽशिवादिकारणैरकालेऽपि क्रियते, उक्तं च तत्रैव-"असिवे ओमोअरिए, सागारभए अराय गेलन्ने । जो जंमि जया जुबइ, पडिवक्खे तं जहाजोए ॥१॥” अशिवगृहीतः सन्न शक्नोति प्रत्युपेक्षितुम् , अवमौदर्ये तु प्रत्यूषे एव भिक्षां हिण्डितुं प्रार-17 ब्धवन्तः अतो नास्ति तस्याः कालः, सागारिको वा प्रेक्षमाणो मा तं सारमुपधि द्राक्षीदितिकृत्वा, भये वा स्तेनादिसम्बन्धिनि सारोपकरणहरणभयान्न प्रत्युपेक्षते, ग्लानत्वे वा वर्तमानः एकाकी तिष्ठन्न प्रत्युपेक्षते, एतैः कारणैर्न प्रत्युपेक्षते । अनागते वा काले प्रत्युपेक्षेत, त्वरमाणोवाऽऽरभदादिदोषैर्दुष्टां तां कुर्वीत, असमर्थो वा |गुर्वादीनामप्युपधिं न प्रत्युपेक्षेत, एवं यो यत्र-अशिवादी यदा-यस्मिन्नवसरे प्रतिपक्ष:-अप्रत्युपेक्षणाकालप्रत्युपे-12 क्षणादिको युज्यते तं तथा योजयेदिति । अथ षट्सु कायेषु प्रत्युपेक्षणा न कर्त्तव्येत्यत्रापवादो यथाऽस्थिरसंहननिरक्षार्थ दृढसंहननिषु सा कार्या, न च प्रायश्चित्तं, अस्थिरसंहननिन:-त्रसा बीजानि च, दृढसंहननिनः पृथिव्यादयस्तदुक्तं-"तसबीयरक्खणट्ठा, काएसुवि होअकारणे पेहा" इति] अथ पात्रप्रतिलेखनानन्तरं द्वितीयायां Jain Education Intel For Private & Personal Use Only S w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy