________________
धर्मसंग्रहे अधिकारः ३
॥ ३१ ॥
| सन्तानादिषु पौरुषीत्रयं यावत् पात्रकं 'संचिक्खावेत्तु' संस्थाप्य यदि तावत्या अपि वेलया नापैति ततः पात्र| स्थापनादेस्तावन्मात्रं छित्त्वा परित्यज्यते अन्याभावे सति कार्ये च, अथान्यपात्रस्थापनादीनां सद्भावे सर्वमेत| त्पात्रकस्थापनादि विगिञ्चेत् परित्यजति, 'पोराणगमहिअंति अथ कोत्थलकारिकागृहं न सचेतनया मृत्तिकया कृतं, किंतु पुराणया, ततस्तां पुराणमृत्तिकां 'ताहे ति तस्मिन्नेव प्रतिलेखनाकाले ऽपनयति यदि तत्र कृमिकास्तया न प्रवेशिता इति । "पत्तं पमजिऊणं, अंतो बाहिं सयं तु पप्फोडे । केइ पुण तिन्नि वारा, चउरंगल भूमि | पडणभया ॥ १ ॥” तत्पात्रं पात्रकेसरिकया तिस्रो वाराः प्रमृज्य सम्पूर्णास्ततो हस्ते स्थापयित्वाऽभ्यन्तरतस्त्रयो वाराः पुनः समस्तं प्रसृज्य ततः 'सयं' ति सकृत् अधोमुखं कृत्वा बुभं प्रस्फोटयेत् । केचित्पुनरेवमाहुः - तिस्रो वाराः प्रस्फोटनीयं, प्रतिप्रमार्जनान्ते इत्यर्थः । तत्पात्रकं भुव उपरि कियद्दूरे प्रत्युपेक्षणीयमित्याह - चतुरङ्गुलैर्भुव उपरि धारयित्वा प्रत्युपेक्षणीयं, भूमिपतन भयान्नाधिकमिति । अत्र च पात्रप्रत्युपेक्षणा अपि पञ्चविंशतिरुक्ता भवन्तीति हार्द, यतिदिनचर्यायामप्युक्तम् - "बारस बाहिं ठाणा, बारस ठाणा य हुंति मज्झमि । पत्तपडिलेहणाए, | पणवीसइमो करप्फासो ॥ १ ॥” इति । एवं तावत् प्रत्यूषसि वस्त्रपात्रप्रत्युपेक्षणोक्ता, इदानीमुपधिं पात्रकं च प्रत्युपेक्ष्य किमुपधेः कर्त्तव्यं ?, क वा पात्रकं स्थापनीयमित्याह - “विंटिअबंधण धरणे, अगणी तेणे य दंडिअ - क्खोभे । उउबद्धधरणबंधण, वासासु अबंधणा ठवणा ॥ १ ॥” उपधेर्विण्टिकाबन्धनं कर्त्तव्यं, 'धरणे'न्ति रजस्त्राणस्य पात्रकस्य चात्मसमीपे धरणं कार्यम्, अनिक्षिप्तमित्यर्थः । किमर्थं पुनरेतदेवं क्रियते ? यदुपधिका
Jain Education International
For Private & Personal Use Only
पात्रप्रतिलेखनावि
धिः
॥ ३१ ॥
www.jainelibrary.org