________________
बुघ्नं पात्रकस्य प्रन्युपेक्षत इति । तान्येव कारणान्याह-"मृसगरयउकेरे, घणसंताणए इअ । उदए महिआ चेव, एमेआ पडिवत्तिओ॥१॥" कदाचित्तत्र मूषिकोत्केररजो लग्नं भवति, ततस्तद्यतनयाऽपनीयते, तथा घनसन्तानको वा-कोलिकतन्तुको लग्नो भवति, तद्यतनयाऽपनीयते, तथा कदाचिदुदकं लग्नं भवति, मृत्तिका वा सााया भूमेरुन्मृद्य लग्ना भवति, तत्र यतनां वक्ष्यति । एवमेताः प्रतिपत्तयः-प्रकारा भेदा यदि न भवन्ति ततो बुघ्नं प्रत्युपेक्षते । उत्केरादिसम्भवे हेतूनाह-"णवगनिवेसे दूरा उक्केरो मूसएहिं उक्किण्णो । निद्धमहिहरतणू वा, ठाणं भेत्तूण पविसेज्जा ॥१॥” [ग्रं १००००] 'नवकनिवेसे' यत्र ग्रामादौ ते साधव आवासिताः स नव:अभिनवनिवेशः कदाचिद्भवति, तत्र च पात्रसमीपे मूषकैरुत्केर उत्कीर्णः दूरात्-गम्भीरात् तेन रजसा पात्रकं गुण्ड्यते, तथा लिग्धायां-साायां सलिलबिन्दव उन्मृद्य लगन्ति ततो भुव उन्मृद्य पात्रस्थापनकं भित्त्वा प्रवि| शेत्-स लग्नो भवेत्, ऊर्द्धगामी उदकबिन्दुहरतनुरुच्यते, तद्यतनां वक्ष्यति, अत्र च घनसन्तानद्वारमुल्लङ्घयके|न्द्रियसाम्यादुदकद्वारमुक्तं । “कोत्थलगारिअ घरगं, घणसंताणाइआ व लग्गेज्जा । उक्करं सट्टाणे, हरतणु संचिट्ठ जा सुक्को ॥१॥” कोत्थलकारिका गृहकं मृन्मयं करोति, तत्र यतनां वक्ष्यति, घनसन्तानादिका वा कदाचिल्लगन्ति, आदिशब्दादण्डकादिः। अथैषां सर्वेषां यतनामाह-उत्केरः स्वस्थाने मुच्यते, यतनया मूषिकोत्केरमध्य एव स्थाप्यते, हरतनवश्च यावत् शुष्यन्ति तावत्प्रतीक्षते, ततः पश्चात् पात्रं प्रत्युपेक्षते । “इतरेसु पोरिसितिगं, संचिक्खावितु तत्तिअंछिंदे । सर्व वावि विगिंचे, पोराणगमहि ताहे ॥१॥” इतरेषु-कोत्थलकारिकाधन-1
या सलिलबिन्दव अन्यत, तद्यतनां वक्ष्यक्तिगजा। उक्करं सटाणा वा कदाचिल्ल
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org