SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे अधिकारः ३ ॥ ३० ॥ तत्र मूषिकादिः प्रविष्टस्तन्निःश्वासवायुश्च शरीरे लगति, ततश्चैवमुपयोगं दत्त्वा पात्रकाणि प्रत्युपेक्षत इति । कथं ? पुनस्तां करोतीत्याह - "मुहणंतएण गुच्छं गोच्छं गहिअङ्गुलिहिं पडलाई । उक्कुहुअ भाणवत्थे पलिमथाईमु तं न भवे ॥ २ ॥" "मुहणंतरणं'ति रजोहरणमुखवस्त्रिकया गोच्छं वक्ष्यमाणलक्षणं प्रमार्जयति, पुनस्तमेव गोच्छमङ्गुलीभिर्गृहीत्वा पटलानि प्रमार्जयति, अत्राह परः - उत्कुटुकः सन् भाजनवस्त्राणि गोच्छकादीनि प्रत्युपेक्षयेत्, यतो वस्त्रप्रत्युपेक्षणोत्कुटुकेनैव कार्या, आचार्य आह-तदेतन्न भवति यच्चोदकेनोक्तं, यतः पलिमन्थः सूत्रार्थयोर्भवति, कथं ?, प्रथममसौ पादप्रोञ्छने निषीदति, पश्चात् पात्रकवस्त्रप्रत्युपेक्षणायामुत्कुटुको भवति, पुनः पात्रप्रत्युपेक्षणायां पादप्रोञ्छने निषीदति, एवं तस्य साधोश्चिरयतः सूत्रार्थयोः पलिमन्धो भवति यतः | अतः पादप्रोञ्छने निषण्णेनैव पात्रवस्त्रप्रत्युपेक्षणा कर्त्तव्येति । ताश्च प्रत्येकं पञ्चविंशतिज्ञेयाः, यतो दिनचर्या - याम् - " मुहवत्थे तह देहे, गुच्छे पडलाइएस पत्तेअं । पणवीसा पणवीसा, ठाणा भणिआ जिणिदेहिं ॥ १ ॥” इति । ततः किं करोतीत्याह - चउकोणभाणकण्णं पमज्ज पाएसरिय तिगुणं तु । भाणस्स पुप्फयं तो, इमेहिं कज्जेहिं पडिले ॥ १ ॥ पटलानि प्रत्युपेक्ष्य पुनर्गोच्छकं वामहस्तानामिकाङ्गुल्या गृह्णाति, ततः पात्रकेसरिकां| पात्रमुखवस्त्रिकां पात्रकस्थामेव गृह्णाति, तया चतुरः पात्रबन्धकोणान् संवत्योपरि स्थापितान् प्रमार्जयति, तद्नु पात्रकेसरिकया भाजनस्य कर्ण प्रमार्जयति, ततः तिगुणंति- तिस्रो वारा बाह्यतोऽभ्यन्तरतश्च प्रमार्जयति, ततो भाजनस्य पुष्पं-बुधं नाभिप्रदेशमित्यर्थः, 'तो' तत एतानि वक्षमाणलक्षणानि कार्याणि भवन्ति ततः Jain Education International For Private & Personal Use Only पात्रप्रति - लेखनाविधिः ॥ ३० ॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy