________________
पढमा ॥२॥ तत्तो उहित्तु गुरू, काऊणं लहुअवंदणं पुत्तिं । पेहंति तओ पत्ते, सीसाण विहिं पयासंता ॥३॥
वंदित्तु तओ समणा, गिहिअ सबंपि पत्तनिजोगं । पाउंछणगनिविट्ठा, पुत्तिं पत्ताणि पेहंति ॥४॥ पाउंछMणमुउबद्ध, वासासमयंमि पीढपट्टाई। आसणमिणं जईणं, भूमिफलिआणि सयणंमी ॥१॥पत्तं १ पत्ताबंधो
२ पायठवणं च ३ पायकेसरिआ ४ । पडलाइँ ५ रयत्ताणं ६ गुच्छओ७ पायणिज्जोगो ॥१॥” एतयाख्या चोपकरणाधिकारे वक्ष्यते, पात्रप्रत्युपेक्षणाविधिस्त्वेवम्-भाजनस्य पार्बोपविष्टः सन् प्रथमं पूर्वोक्तरीत्या मुखवस्त्रिका प्रतिलिख्य श्रोत्रादिभिरिन्द्रियरुपयोगं च कृत्वा पात्राणि प्रतिलिखयेदिति, तदुक्तं पञ्चवस्तुके-"भाणस्स पास बेटो, पढमं सोआइएहिं काऊण । उवओगं तल्लेसो, पच्छा पडिलेहए पायं ॥१॥” इति, ओघनियुक्तावपि-"उवउंजिऊण पुच्विं, तल्लेसो जइ करेइ उवओगं । सोएण चक्खुणा घाणओ अ जीहाऍ फासेणं ॥१॥" व्याख्या-उपयुज्य-उपयोगं दत्त्वा, पूर्वमेव यदुत मयाऽस्यां वेलायां पात्रकाणि प्रत्युपेक्षणीयानीति, पुनस्तल्लेश्य एव-प्रत्युपेक्षणाभिमुख एव यतिः पात्रकसमीपे उपविश्योपयोगं करोति-मतिं व्यापारयति, कथं ?-श्रोत्रेन्द्रियेण पात्रे उपयोगं करोति, कदाचित्तत्र भ्रमरादिकं शृणोति ततस्तं यतनयाऽपनीय तत्पात्रकं प्रत्युपेक्षते, तथा चक्षुषोपयोगं दत्ते, कदाचित्तत्र मुषिकोत्केरादिरजो भवति ततस्तद्यतनयाऽपनयति, तथा घ्राणेन्द्रियेण चोपयोगं दत्ते, कदाचित्तत्र सुरभकादिमर्दितो भवति, ततश्च तद्यतनयाऽपनयति, जिह्वया च रसं ज्ञात्वा यदा गन्धपुद्गलैरोष्ठो यदा व्याप्तो भवति तदा जिह्वया रसं जानातीति, स्पर्शनेन्द्रियेण चोपयोगं ददाति, कदाचि
Jain Education Inc
a
For Private & Personel Use Only
w
ww.jainelibrary.org