SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ मजानानो हि मुह्यति, मूढः सन् ज्ञानावरणीयादि कर्म समादत्ते, कर्मणा च जन्तुरनन्तसंसारं पर्यटति, जानानश्चात्महितं प्राणातिपाताद्यकरणरूपायां परमार्थतोऽहितनिवृत्तौ परार्थकरणादिरूपायां च हितप्रवृत्तौ भवतीत्यात्महितं ज्ञातव्यं, तच्च स्वाध्यायादेव । तथा भावतः-परमार्थतः संवरः, ज्ञानेन हि हिता अहिताश्च भावा यथास्थानमुपयोगिनो ज्ञायन्ते, तत्ज्ञानतश्च भावेन संवरो भवत्येव । नवनवसंवेगश्च स्वाध्यायाद्भवति, यतो हि यथा यथाऽतिशयरससमन्वितं प्रत्यहमपूर्व श्रुतमवगाहते तथा तथा शुभभावशैत्येन मुनिर्नवनवसंवेगश्रद्धावान् जायत इति । तथा निष्कम्पता मार्गे स्वाध्यायाद्भवति, अयं चोत्कृष्टं तपः, यतः-"बारसविहंमिवि तवे, सन्भिन्तरबाहिरे कुसलदिढे। णवि अस्थि णविय होहिहि, सज्झायसमं तवोकम्मं ॥१॥” इति । अत एव खाध्यायादुत्कृष्टा निर्जरापि भवति, यत:-"जं अन्नाणी कम्मं, खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेणं ॥१॥” इति । तथा परदेशकत्वं च आत्मपरसमुत्तारस्तदपि खाध्यायाद्भवति, तथा चाज्ञाया वात्सल्यं दीपना भक्तिस्तीर्थाऽविच्छित्तिश्च परदेशकत्वे सति भवतीति विधिना खाध्यायो |विधेयः, अकरणे चोन्मादायो दोषाः स्युः, यतः "उम्मायं च लभेज्जा रोगायंकं च पाउणे दीहं । केवलिपण्णत्ताओ धम्माओ वावि भंसेज्जा ॥१॥” इति । ये च सूत्रार्थग्रहणे निर्मिताः शिष्येभ्यो दत्तसूत्रार्थाश्च अथवा मन्दबुद्धयस्ते आतापनादि विदधति, यतो दिनचर्यायाम्-"जे समयसारगहणे, निम्माया सीसदिन्नसुत्तत्था । अहवावि मंदमइणो, तेसि इमो उजमो भणिओ॥१॥"-"आयावयंति गिम्हेसुं, हेमंतेसु अवाउडा । वासासु Jain Education in For Private & Personal Use Only arw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy