________________
धर्मसंग्रह अधिकारः
॥२७॥
पुत्तीतणपडिलेहा, समणंतरमेव मज्झण्हे ॥१॥” इत्थं च जीवसंसक्तिरहितायामपि वसतौ ऋतुबद्ध वारद्वयं || प्रतिलेखवर्षासु च वारत्रयं जीवसंसक्तौ च बहुशोऽपि वसतिं प्रमार्जयेदित्यवसेयं, तथापि बहुजीवोपमर्दे त्यजेदपि,
नाविधिः तदुक्तं दिनचर्यायाम-"दुन्नि पडिलेहणाओ, उउम्मि वासासु तइअ मज्झण्हे । वसहिं बहुसो पमजइ, अइसंघद्दे त(अन्न)हिं गच्छे ॥१॥" वसतिप्रमार्जनं च यतनानिमित्तं, सा चान्धकारे न स्यादित्युपधिप्रतिलेखनानन्तरमेव प्रातस्तच्छ्रेयः, तदुक्तं तत्रैव-"को हेऊ? जिणआणा, एसा जयणानिमित्तमहवावि । रविकरहयंधयारे, वसहीइ पमजणं से॥१॥” इति । तच्चाव्याक्षिप्तेनोपयुक्तेन च गीतार्थेन विधेयं, नतु विपरीतेन, अविध्यादिदोषात्, यदुक्तं पञ्चवस्तुके-“वसही पमजिअवा, विक्खेवविवज्जिएण गीएणं। उवउत्तेण विवक्खे, णायवो होइ अविही उ8 ॥१॥” इति । तेनापि सदा पक्ष्मलेन-मृदुना प्रमाणोपेतेनाविद्धदण्डकेन च दण्डकप्रमार्जनेन प्रमार्जनीया वसति, न तु कचवरशोधनादिना, यतस्तत्रैव-"सइ पम्हलेण मिउणा, चोप्पडमाइरहिएण जुत्तेणं । आविद्धदंडगेणं, दंडगपुच्छेण णपणेणं ॥१॥” इति, यतना च वसतिं प्रमाय पिण्डीभूतरेणुपुञ्जमुद्धरेत्, तत्र चैवं विधिर्यतिदि-15 नचर्यायाम्-"अह उग्गयंमि सूरे, वसहिं सुपमजिऊण जयणाए। ऊद्धरिअ रेणुपुंज, छायाए विक्खिरेऊणं ॥१॥" संगहि छप्पयाओ, मआण कीडाण लहइ तो संखं । पुत्वं च लेइ भूई, वोसिरिअ नवं च गिण्हति ॥ २॥ जो॥ ॥२७॥ तं पुजं छंडइ, इरिआवहिआ हवेइ निअमेणं । संसत्तगवसहीए, तह हवइ पमन्जमाणस्स ॥ ३ ॥” अत्र च। आभिग्रहिकोऽनाभिग्रहिको वा साधुदण्डान् प्रमार्जयेत्, ततस्तदुपरितनभूमिं च, यत:-"आभिग्गहिओ अण
Jain Education Intemational
For Private Personel Use Only
1100w.jainelibrary.org