________________
Jain Education Int
23
नवखोडं, पाणिपाणमजणं ॥ ७ ॥ ' तत्र प्रत्युपेक्षणां कुर्वता वस्त्रमात्मा वा न नर्त्तयितव्यः, तथा अचलितं च वस्त्रं शरीरं च कर्त्तव्यं, 'अणाणुबंधि'त्ति न अनुबन्धः सोऽस्मिन्नस्तीति अननुबन्धि प्रत्युपेक्षणं, न निरन्तरमाखोटकादि कर्त्तव्यं, किं तर्हि ? - सान्तरं सविच्छेदमित्यर्थः । 'अमोसलि त्ति म मौशली क्रिया यस्मिन् प्रत्युपेक्षणे तदमौलि प्रत्युपेक्षणं, यथा मुशलं झटिति ऊर्ध्वं लगति, अधस्तिर्यक्च, न एवं प्रत्युपेक्षणा कर्त्तव्या, | किन्तु यथा प्रत्युपेक्षमाणस्य ऊर्द्ध पीठेषु न लगति न च तिर्यग कुड्ये न भूमौ तथा कर्त्तव्यं । 'छप्पुरिमं' तत्र वस्त्रं चक्षुषा निरूप्यार्वाग्भागं त्रयः पुरिमाः कर्त्तव्याः, तया परावर्त्त्याऽपरभागं निरूप्य पुनरपरे त्रयः पुरिमाः कर्त्तव्याः, एवमेते षट् पुरिमाः षट् वाराः प्रस्फोटनमित्यर्थः । 'नवखोडं 'ति नव चाखोटकाः कर्त्तव्याः, पाणेरुपरि | 'पाणीपाणिपमज्जणं' ति प्राणिनां कुन्थ्वादीनां पाणी हस्ते प्रमार्जनं नवैव वाराः कर्त्तव्यं । इयं द्वारगाथा । | इदानीं भाष्यकृयाख्यानयन्नाह - "वत्थे अप्पाणमि अ, चउह अणच्चाविअं अचलिअं च । अणुबंध निरंतरया | तिरिउगृहघट्टणा मुसली ॥ ८ ॥” वस्त्रे आत्मनि चेति पदद्वयेन भङ्गकचतुष्टयं सूचितं भवति, ततश्चानेन प्रकारेणानर्त्तापितं चतुर्द्धा भवति इत्थं वस्त्रम तपितं आत्मापि चेत्याद्यः, वस्त्रमनर्त्तापितमात्मा च नर्त्तापित इति द्वितीयः, वस्त्रं नर्त्तापितमात्मा चानर्त्तापित इति तृतीयः, उभयं नतपितमिति तुर्य:, अत्राद्यः शुद्धः, एवमचलितेऽपि चत्वारो भूङ्गाः । अनुबन्धश्च निरन्तरतोच्यते, ततश्चानुबन्धेन- मैरन्तर्येण प्रत्युपेक्षणा न कर्त्तव्या, तथा त्रिविधा मुशली - तिर्यग्घटना ऊर्द्धघहना अघोघना चेति, तत्र प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यग कुड्यादि
For Private & Personal Use Only
w.jainelibrary.org