________________
सीए चउभाए, सेसे वंदित्तु तो गुरूं। पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ॥१॥” इति । कालग्रहणविधिश्च योगविधितो ज्ञेयः, इयांस्तु विशेष:-"ताहे एगो साह उवज्झायस्स अण्णस्स वा संदिसावित्ता पाभाइअकालं गिण्हइ, तओ गुरु उद्वेइत्ति" । अथ चेर्यापथिकीपाठादिसकलमनुष्टानं शनैः शनैः कार्यमित्यादिः कायोत्सर्गादिविधिविशेषश्च प्राग्निरूपित एव । आचार्यादिभिश्च प्रतिक्रमणकरणसमये जाग्रद्भिरेष सर्वोऽपि इयोपथिकीप्रतिक्रमणादिविधिस्तदैव कार्यः, यतः-"आयरियगिलाणाई, जे नवि जग्गंति पच्छिमे जामे । आवस्सयस्स समए, कजं इरिआइ तेहिंतु ॥१॥” ततस्तदनन्तरं 'आवश्यकक्रिया' प्रतिक्रमणकरणमित्यर्थः । एतद्विधिरपि प्रागुक्त एव, कियान् विशेषस्तु दैवसिकप्रतिक्रमणविशेषसम्बद्ध एव दर्शयिष्यते, अत्र च प्रतिक्रमणक्रियान्ते बहुवेलं संदिशाप्य बहुवेलं कुर्वन्ति, तत्र बहुवेलशब्देन बहुवेलाभावीनि अक्षिभूचालनादीनि सूक्ष्मकार्याणि प्रोच्यन्ते, तान्यपि गुरुणाऽननुज्ञातानां सतां यतीनां न कल्पन्त इति युगपदेव कृत्यसूक्ष्मयोगानुज्ञापनाय बहुवेलकरणमुचितमेव । यतः पञ्चवस्तुके-"गुरुणाणुण्णायाणं, सव्वं चिय कप्पई उ समणाणं । कि| चंपि जओ काउं, बहुवेलं ते करंति तओ॥१॥” इति। ततः किं कर्त्तव्यमित्याह-'द्रागि'त्यादि 'दाग' समंतात् | न त्वेकपार्थादौ 'सम्यक् च' शास्त्रोक्तविधिना 'प्रत्युपेक्षणा' प्रतिलेखनाकरर्ण सापेक्षयतिधर्मों भवतीति सम्बन्धः। प्रतिलेखना चात्रोपकरणविषया ज्ञेयेति प्रागुक्तमेव । तत्रापीयं वस्त्रविषया वाच्या, पात्रविषयाया अग्रे वक्ष्यमाणत्वात्, इत्थमेव चोक्तं यतिदिनचर्यायामपि-"पहिज्ज दिणारंभे, दसगं उग्घाडपोरिसीसमए । पत्ताणं 8
Jain Education
For Private Personel Use Only
O
w.jainelibrary.org